पृष्ठम्:गौडपादकारिका.pdf/113

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ गौडपादीयकारिका। ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९ ॥ (८९) अन्वयः-- ज्ञाने त्रिविधे ज्ञेये च क्रमेण विदिते ( सति ) महाधियः हि स्वयं सर्वत्र सर्वज्ञता भवति । हेयज्ञेयायपाक्यानि विज्ञेयान्यग्रयाणतः। तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९ ॥ (९०) अन्वयः--- अग्रयाणतः हेयज्ञेयाप्यपाक्यानि विज्ञेयानि तेषां विज्ञेयात् अन्यत्र त्रिषु उपलम्भः स्मृतः । प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किंचन ॥ ९१ ।। (९१) अन्वयः----- सर्वे धर्माः आकाशवत् प्रकृत्या अनादयः ज्ञेयाः, तेषां हि क्वचन किंचन नानात्वं न विद्यते । आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ।। ९२ ।। ( ९२ ) अन्वयः-- प्रकृत्या एव सर्वे धर्माः आदिबुद्धाः सुनिश्चिताः; यस्य एवं क्षान्तिः भवति, सः अमृतत्वाय कल्पते । (89) Knowledge and the three-fold objects of knowledge being known gradually [ or, in order ], omniscience, of its own accord, accrues here on all sides to one of high intellect. (90) What is fit to be abandoned, what is fit to be known, what is fit to be secured, what is fit to be made perfect are to be known from the Agrayāna. Of these, of the three excluding that fit to be particularly known, perception is traditionally known [ to take place ] (91) All entities should be known as naturally biginningless like the sky. In their case, no multiplicity indeed of any- where exists. (92) All entities by nature itself are well ascertained as Adi- buddhas ( enlightened from the very beginning }; one who has self-sufficiency in this way, is capable of [ securing ] immortality. any kind