पृष्ठम्:गौडपादकारिका.pdf/112

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । प्राप्य सर्वज्ञतां कृत्वां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५ ॥ (८५) अन्वयः- • कृत्स्नां सर्वज्ञतां अनापन्नादिमध्यान्तम् अद्वयं ब्राह्मण्यं पदं प्राप्य अतः परं किम् ईहते ? विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वान्शमं व्रजेत् ।। ८६ ।। (८६) अन्वयः-- एषः विप्राणां विनयः हि प्राकृतः शमः, प्रकृति- दान्तत्वात् दमः उच्यते; एवं विद्वान् शमं ब्रजेत् । सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७ ॥ (८७) अन्वयः- सवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते, अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते । अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ।। ८८ ॥ (८८) अन्वय:---- अवस्तु अनुपलम्भं च लोकोत्तरम् इति स्मृतम् । बुद्धैः सदा ज्ञानं ज्ञेयं विज्ञेयं च प्रकीर्तितम् । (85) Having atrained to complete omniscience, the state beneficial to a Brāhmana, non-dual, not amenable to any beginning, middle and end, what more than this does one yearn for ? (86) This discipline of the Brāhmanas indeed is spoken of as the natural calm and control owing to the nature ( itself ] being controlled. Knowing thus, one should attain to calm. (87) The dual, with the object and with [ its] perception, is fancied [ or, looked upon ] as ' practical '; [ the dual ] without the object and with [ its ] perception is looked upon as 'pure practical'. (88) [ The dual ] without the object and without [ its ] perception is traditionally known as 'super-practical'. Knowledge, the object of knowledge and particularly the knowable [ these three ) are always proclaimed by the enlightened.