पृष्ठम्:गौडपादकारिका.pdf/111

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ गौडपादीयकारिका। अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१॥ (८१) अन्वयः-- अजम् अनिद्रम् अस्वप्नं स्वयं प्रभातं भवति। एषः हि धर्मः धातुस्वभावतः एव सकृद्विभातः । सुखमाव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥ ( ८२ ) अन्वयः-- यस्य कस्य च धर्मस्य ग्रहेण असौ भगवान् नित्यं सुखम् आव्रियते, सदा दुःखं विव्रियते । अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणोत्येव बालिशः॥ ८३॥ (८३ ) अन्वयः--- अस्ति, न अस्ति, अस्ति न अस्ति इति, न अस्ति न अस्ति इति वा पुनः बालिशः चलस्थिरोभयाभावैः ( भगवन्तम् ) आवृणोति एव । कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदावृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ।। (८४) अन्वय: ---- एताः चतस्रः कोट्यः, यासां ग्रहै: तु सदा आवृतः भगवान् आभिः अस्पृष्टः येन दृष्टः सः सर्वदृक् । ( 81 ) Unoriginated, free from sleep, free from dream, it [ the highest ] blazes forth itself. This entity indeed is illuminated once for all owing to [ its ] fundamental nature. (82) By the apprehension of some object or other again, is continuously covered over [ or, concealed ] that Lord easily [and] is always uncovered with difficulty. ( 83 ) Is, is not, is [ and ] is not, is not is not-thus again the untrained one ( bališa ) does encompass (the Bhagavat ] with [ notions of him as ] moving, steady, both [ moving and steady ] and free from both. (84) These [ are the ] four points [ alternative theories ], by apprehensions of which, the Lord again is always encompassed, - he is omniscient by whom [ the Lord ] is seen as being unconta- minated by these.