पृष्ठम्:गौडपादकारिका.pdf/110

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः । अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया ॥ ७ ॥ (७७) अन्वयः---- यतः हि तत् (चित्तं ) चित्तदृश्यं (ततः) अनिमित्तस्य चित्तस्य---अजातस्य सर्वस्य एव-~-या अनुत्पत्तिः (सा) समा, अद्वया (च)। बुद्ध्वानिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथाकाममभयं पदमश्नुते ।। ७८ ।। (७८) अन्वयः-- सत्याम् अनिमित्ततां बुद्ध्वा हेतुं पृथक् अनाप्नुवन् वीतशोकं तथा अकामम् अभयं पदम् अश्नुते । अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुद्ध्वैव निःसंगं विनिवर्तते ।। ७९ ॥ (७९) अन्वयः----- अभूताभिनिवेशात् हि तत् सदृशे प्रवर्तते; सः वस्त्वभावं बुद्ध्वा एव निःसंग विनिवर्तते । निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८० ॥ (८०) अन्वयः--- तदा निवृत्तस्य अप्रवृत्तस्य हि स्थितिः निश्चला; सः हि बुद्धानां विषयः, तत् साम्यम् अजम् अद्वयम् । ( 77 ) In asmuch as that [ mind is ] verily the mind-percepti- ble, what non-origination, of the mind free from causal relation [or for the matter of that ), of everything unorinaigited as well, [ there is, it is the ] same, free from the dual. (78) Having i thus ] understood the true causelessness, not finding our [another] separate cause, one secures the state [which is] void of grief, free from desire [ and ] free from fear. ( 79 ) That [ mind ], owing to [its ) persistent adherence to the non-existent proceeds to a similar [ entity , ] ; having verily realised the absence of a real ] object, he turns back, without any attachment. (80) Then the state of [ him, or the mind ] turned away and not active, [ is ] verily unmoving. (That is] indeed the province (visayah) of the Enlightened. It [ is ] same, unoriginated, free from the dual.