पृष्ठम्:गौडपादकारिका.pdf/115

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ गौडपादीयकारिका । अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः । असंगता सदा नास्ति किमुतावरणच्युतिः ॥ ९७ ॥ (९७) अन्वयः-- अणुमात्रे अपि वैधर्म्ये जायमाने अविपश्चितः सदा असंगता न अस्ति; आवरणच्युतिः किम् उत ? अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः। आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः॥९८ ।। (९८) अन्वयः--- सर्वे धर्माः अलब्धावरणाः प्रकृतिनिर्मलाः आदौ बुद्धाः तथा मुक्ताः इति नायकाः बुध्यन्ते । क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद् बुद्धेन भाषितम् ॥ ९९ ॥ (९९) अन्वयः- - तायिनः बुद्धस्य ज्ञानं हि धर्मेषु न क्रमते, सर्वे धर्माः तथा ज्ञानं ( न क्रमन्ते )-बुद्धेन एतत् न भाषितम् । दुर्दर्शमतिगम्मीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मों यथाबलम् ॥ १० ॥ (१००) अन्वयः----- - दुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम् अनानात्वं पदं बुद्ध्वा यथावलं नमस्कुर्मः । इति गौडपादीयकारिकायां चतुर्थ प्रकरणम् । (97) If there is difference even of the measure of an atom, being produced, for an unwise one, there is not always the state of being without attachment; much more therefore there is no ] slipping away of the veil [ covering the Highest ]. (98) All entities [. are ) those who have [ never ] secured any covering, naturally unsullied; [ they are ] enlightened as well as liberated from the beginning-- so understand the Leaders (the wise). (99) The knowledge of the eternal enlightened one, does not cross over into the entities; all entities likewise [ do not cross over into ] the knowledge--this has not been declared by Buddha. (100) Having realised the state, difficult to see, very pro- found, unoriginated, sameness, self-confident, without multiplicity, we salute [ it ] to the best of our power. Here ends the Fourth Chapter in the Gaudapada-karika.