पृष्ठम्:गौडपादकारिका.pdf/108

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥ (६९) अन्वयः- यथा मायामयः जीवः जायते अपि च म्रियते, तथा अमी सर्वे जीवाः भवन्ति न भवन्ति च । यथा निर्मितको जीवो जायते म्रियतेऽपि वा। तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७० ॥ (७०) अन्वयः---- यथा निर्मितकः जीवः जायते अपि वा म्रियते, तथा अमी सर्वे जीवाः भवन्ति न भवन्ति च । न कश्चिजायते जीव: संभवोऽस्य म विद्यते । एतत्चदुत्तमं सत्यं यत्र किंचिन्न जायते ।। ७१ ॥ (७१) अन्वयः-- कश्चित् जीवः न जायते, अस्य संभवः न विद्यते; एतत् तत् उत्तमं सत्यं यत्र किंचित् न जायते । चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्वयम् । चित्तं निर्विषयं नित्यमसंगं तेन कीर्तितम् ॥ ७२ ॥ (७२) अन्वय:--- इदं ग्राह्यग्राहकवत् द्वयं चित्तस्पन्दितम् एत्र चित्तं निर्विषयं तेन नित्यम् असंगं कीर्तितम् । (69) As a māyā-made creature is born and also dies, so likewise, all those creatures are and also are not. (70) As a creature created by supernatural power is born and also dies, so likewise, all those creatures are and also are not. (71) No creature whatever is born; no origination of it exists [ or, takes place ]. This [ is ] that highest truth where nothing whatever is born. (72) This dual, associated with [or, involving ] the percepti- ble and perceiver [ is ] the mind-vibration itself; the mind [ is ] unrelated to the object; therefore [it is ) glorified as eternal [ and ] without attachment. १