पृष्ठम्:गौडपादकारिका.pdf/107

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका । , चरञ्जागरिते जाग्रदिक्षु वै दशसु स्थितान् । वै अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६५ ॥ (६५) अन्वयः-- जागरिते चरन् जाग्रत् वै दशसु दिक्षु स्थितान् यान् अण्डजान् स्वेदजान् वा अपि जीवान् सदा पश्यति, जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तदृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६ ॥ (६६) अन्वयः- ते जाग्रच्चित्तेक्षणीयाः, ततः पृथक् न विद्यन्ते; तथा तदृश्यम् इदं जाग्रतः चित्तम् इष्यते । • उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति नोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ।। ६७ ॥ (६७) अन्वयः- ते उभे हि अन्योन्यदृश्ये, तत् किम् अस्ति ? न इति उच्यते; उभयं लक्षणाशून्यम् तन्मतेन एव गृह्यते । यथा स्वममयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८॥ (६८) अन्वयः-- यथा स्वप्नमयः जीवः जायते अपि च म्रियते, तथा अमी सर्वे जीवाः भवन्ति न भवन्ति च । (65) The creatures-oviparous born of perspiration as well-~-which the waking one moving in the waking state, always beholds, [ as being ] located verily in the ten quarters-- (66) they are [all ] capable of being beheld [ only ] by the mind of the waking one ; [ they ] do not exist apart from it [ the mind ]; so likewise, this capable of being seen only by it [the mind is fancied [ to be ] the mind of the waking one. (67) They both [ are ] capable of being perceived by each other; then what is it [ that is real ] ? Nothing is the answer (ucyate ). Both, void of characteristics, are perceived by their thought itself. ( 68 ) As a dream-made creature is born and also dies, so likewise, all these creatures are and also are not.