पृष्ठम्:गौडपादकारिका.pdf/106

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्वयाभासं चित्तं चलति मायया ॥ ६१॥ (६१) अन्वयः---- यथा स्वप्ने चित्तं मायया द्वयाभासं चलति, तथा जाग्रत् चित्तं मायया द्वयाभासं चलति । अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः। अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ६२ ॥ (६२) अन्वयः--- • स्वप्ने अद्वयं च चित्तं द्वयाभासम् , न संशयः; तथा जाग्रत् अद्वयं च द्वयाभासम् , न संशयः । स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६३ ।। (६३) अन्वयः ---- स्वप्ने प्रचरन् स्वप्नदृक् वै दशसु दिक्षु स्थितान् यान् अण्डजान् स्वेदजान् वा अपि जीवान् सदा पश्यति, स्वप्नदृश्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तदृश्यमेवेदं स्वमदृक्चित्तमिष्यते ।। ६४ ।। (६४) अन्वयः- ते स्वप्नदृक्चित्तदृश्याः, ततः पृथक् न विद्यन्ते; तथा तद्दश्यम् एव इदं स्वप्नदृक्चित्तम् इष्यते । (61) As in dream, the mind through māyā moves, having [ or, presenting ] the appearance of the dual [ grahya and grahaka ], so in the waking state, the mind through mayā moves, having [ or, presenting ) the appearance of the dual. ( 62 ) In dream, the non-dual mind again has the appearance of the dual, no doubt [ about it ] ; similarly in the waking state, the non-dual mind again has the appearance of the dual, no doubt [ about it ). (63) The creatures-oviparous or born of perspiration, as well-which the dream-beholder moving about in dream, always beholds, (as being ] located verily in the ten quarters- (64) they are [ all ] capable of being seen [ only ] by the mind of the dream-beholder; [ they ] do not exist apart from it [ the mind ]; so likewise, this capable of being seen only by it [ the mind ] is fancied [ 1o be ] the mind of the dream-beholder.