पृष्ठम्:गौडपादकारिका.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ गौडपादीयकारिका संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै। सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७ ॥ (५७) अन्वयः-- सर्व संवृत्या जायते, तेन वै शाश्वतं न अस्ति; सर्व हि सद्भावेन अजम् , तेन वै उच्छेदः न अस्ति । धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥ (५८) अन्वयः-- ये धर्माः जायन्ते इति ते तत्त्वतः न जायन्ते; तेषां जन्म मायोपमम् , सा माया च न विद्यते । यथा मायामयाद्वीजाज्जायते तन्मयोऽङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥ (५९) अन्वयः-- यथा मायामयात् बीजात् तन्मयः अङ्कुरः जायते; असौ नित्यः न उच्छेदी च न, तद्वत् धर्मेषु योजना । नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा। यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६॥ (६०) अन्वयः- सर्वधर्मेषु अजेषु ( सत्सु) शाश्वताशाश्वताभिधा न; यत्र वर्णाः न वर्तन्ते तत्र विवेकः न उच्यते । (57) Everything is originated on account of empirical experin ence, therefore indeed ( what is so originated ] is not eternal [or, permanent ]. Everything characterised by the nature of existent ( is ] unoriginated, and therefore there is no annihilation. (58) The entities which are spoken of (iti) as originated, they are not originated in reality. Their origination is comparable to illusion; that illusion too does not exist. (59) As from a seed made up by illusion, is originated a sprout constituted of it ( illusion ), that [ sprout ] is not eternal, nor again liable to annihilation; so likewise, the scheme in respect of entities. (60) The designation of eternal and non-eternal is not [ significant ] when all entities ( are ] unoriginated; where words [ lit. alphabet, letters ] do not function [ lit. exist ), discrimination is not spoken of there [ that is, cannot be said to have any scope ].