पृष्ठम्:गौडपादकारिका.pdf/104

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । ४५ , द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ।। ५३ ।। (५३) अन्वयः-- द्रव्यं द्रव्यस्य, अन्यत् अन्यस्य च एव हि हेतुः स्यात् ; धर्माणां द्रव्यत्वम् अन्यभावः वा न उपपद्यते । एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ।। ५४ ।। (५४) अन्वयः-- एवं धर्माः चित्तजाः न, चित्तं वा अपि धर्मजं न; एवं मनीषिणः हेतुफलाजातिं प्रविशन्ति । यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः। क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ।। ५५ ॥ (५५) अन्वयः-- यावत् हेतुफलावेशः तावत् हेतुफलोद्भवः हेतुफलावेशे क्षीणे ( सति ) हेतुफलोद्भवः न अस्ति । यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ।। ५६ ॥ (५६) अन्वयः- यावत् हेतुफलावेशः तावत् संसारः आयतः, हेतुफलावेशे क्षीणे ( सति ) ( पुरुषः ) संसारं न प्रपद्यते । (53) Substance may be the cause of substance; and [a category] other [ than substance ] of [ a category ] other [ than substance ] assuredly. The nature of a substance or the nature of [ some ] other [ category] is not reasonable in the case of entities, 54). Thus, entities [ are ] nor originated from the mind ; the mind also for the matter of that [ is ] not originated from entities. Thus the wise enter into [ that is, have to fall back upon ] [ the doctrine of ] non-origination of cause and effect. (55) As long as [ there is ] the obsession of cause and effect, so long [ is ] the uprising of cause and effect ; when the obsession of cause and effect ceases to exist, there is no uprising of cause and effect. (56) As long as [ there is ] the obsession of cause and effect, so long the world existance (is) prolonged; when the obsession of cause and effect ceases to exist, one does not attain to worldly existence.