पृष्ठम्:गौडपादकारिका.pdf/102

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । १३ जात्याभासं चलाभासं वस्त्वामासं तथैव च । अजाचलवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥ (१५) अन्वयः--- जात्याभासं चलाभासं तथा एव च वस्त्वाभासं विज्ञानम् अजाचलम् अवस्तुत्वं शान्तम् अद्वयम् । एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यये ।। ४६ ॥ (१६) अन्वयः---- एवं चित्तं न जायते, एवं धर्माः अजाः स्मृताः, एवम् एव विजानन्तः विपर्यये न पतन्ति । ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७ (१७) अन्वयः--- यथा अलातस्पन्दितम् ऋजुवक्रादिकाभासं तथा विज्ञानस्पन्दितं ग्रहणग्राहकाभासम् । अस्पन्दमानमलातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥४८॥ (४८) अन्वयः-- यथा अस्पन्दमानम् अलातम् अजम् अनाभासम् , तथा अस्पन्दमानं विज्ञानम् अजम् अनाभासम् । (45) Origination-appearance, moving-appearance, and thing- appearance exactly in the same way [ are nothing but ] vijñāna, un- originated and unmoving, unsubstantiality, calm [ and ] without any dual. (46) Thus is not originated the mind; thus are the entities traditionally known as unoriginated; those fully knowing [ the reality ] thus alone do not fall into error. (47) As the shaking of the fire-brand [ is with ] the appear- ance of straight, crooked etc., so the vibration of vijñāna [ is with ] the appearance of perception and perceiver. (48) As the fire-brand not shaking, presenting no appearance [ is unoriginated, so [ is ] the vijnana not shaking, presenting no appearance, unoriginated.