पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
गोपीगीतार्थकौमुदीसहिता-


आमित्यङ्गीकारे। यद्वा अपश्यतेतिलङ्मध्यमपुरुषवहुबच नान्तमस्तु। अ! हे सख्यः! जडे मूर्खे नन्दनन्दने कुटिलकुन्तलं श्रीमुखं च पश्यत, तत्सर्वन्दृष्टा आमित्य- ङ्गोकुर्वन्ति पश्चात्सखयो ब्रुवन्ति अटति। यद्भवानह्वि- काननं तदा त्वाम्प्रति त्रुटिर्युगायते। अहो तव मूर्खता, जडे एता- दृशानुरागोऽनुचित एवेति सखीनामभिप्रायः। पुनर्विचार्यंत- त्सत्यमेव। अस्मिन्ननुराग उचित एवेत्याशयेन सख्यः पुनर्ब्रुवन्ति। ते तवोदीक्षतामस्माकं च पश्मदब्रह्माजडः आक्षेपालङ्कृति र्व्यङ्गया पूर्व जड़ेऽनुरागोऽनुचित इत्युक्तम् पश्चाद्विचार्य तस्यैव निषेधः कृतः। निषेधश्च ते जड़ उदीक्षतामित्याद्यन्त्यपादेन स्प- धीकृतः॥१३॥ यद्वा अनह्नि रात्रौ कुटिलकुन्तलं श्रीमुखं च ते आननं का स्त्री न पश्येदितिशेषः। यद्यस्मात्कारणात्, 'यद्यत्त- तस्ततो हेतौ' इत्यमरः, भवानटति। अस्मिन्पक्षे भवेति देववा- चकं सम्बोधनम्। यद्वाभूधातोर्लोण मध्यमपुरुषैकवचनान्तम्। तथा च युवतय आशिषं ददते। यद्वा हे! भव !संसाररूपत्वद्वि. वर्तः संसारो नत्वदन्य इति सम्बोधनार्थः ॥१५॥ यद्वा अह्नि यदर्थ स्वसुन्दरमुखदर्शनार्थ भवानटति, पण्यवीथिकायामिति- शेषः। तादृशं सुन्दरन्ते मुखं का न पश्यतीति शेषः ॥१६॥ यद्वा अनह्नि रात्रौ अद्य भवान् काननमटति यदर्थमस्मत्प्राप्तयेऽतो भव सत्तावान् आत्मधारणवान्दीर्घायुभवेत्याशिषम्प्रयुज्जते। अ. न्हयपि व्याघ्रादयो जन्तून्भवन्ति। रात्रौतु का कथा, अतोभवन्तं व्याघ्रादयो मा घसन्निति युवतय आशिषं ददति। येष्वर्थेषु मुखा