दर्पणं नैव प्राप्यते। अतः कुटिलकुन्तलं श्रीमुखं ते तव चेन
समुच्चयार्थकेन प्रिया मुखसङ्ग्रहः। जले उहीक्षपश्य। जलेऽपि
पश्यतां मुखं दृश्यते। स्वच्छत्वात् तां स्वप्रियां च जले उदीक्ष।
सा जले निमग्ना, अयमभिसन्धिः। कपटं कपटेनैवेति न्याया-
न्मुखं जले यदि पश्येत् तर्हि मुखे छायारोगोत्पत्तिः स्यात्तेन
मालिन्यं स्यात्। जले मुख दर्शने मुखश्रीर्नश्यतीति प्रसिद्धिः।
अत एव 'आननं च जले दृष्ट्वा शक्रस्यापि श्रियं हरे' दित्युक्तम्।
अस्मिन्कुटिले नन्दनन्दने एवं कृत्वैव कौटिल्यं स्यात्। श्रीमुखं
काननं कुत्सिताननं स्यात्, अतः कपटिषु कपटं भवेत्। प्रिया-
या जले निमग्नोक्त्या च तदुद्धरणाय जले पतितः स्यादेवं सति
अस्मिन्कपटिनि पूर्णतरः कपटः स्यात् ॥१२॥यद्वा त्रुटिविच्छेदः।
तार्किकाभिमताणुलक्षणा वा निमेषपरिमितकालो वा। अत्रैव
श्लोके त्रुटिपदे गुरुपाठाच्छन्दोभङ्गलक्षणा त्रुटिर्वा युगाय मिथु.
नाय सखीसहिताय तुभ्यं भवतु, नहि विच्छेदादिकमनिष्टं वस्तु
वयमिच्छामः। अस्माकं काहानिः। अस्माकं मुखं कुटिलकुन्तलं
श्रीमुखं श्रियामुखमेव अभेदानुभयोक्तिरूपकालकृतिः। शेषं
पूर्ववद्योज्यम् ॥ १३॥ यद्वा काचित्सखी सखीः प्रति ब्रूते।
अशब्दः सखीसम्बोधने अ! पश्यत आमितिच्छेदः।
ते तवोदीक्षतामस्माकं च पक्ष्मद्वह्मा जड़ः आक्षेपालङ्कृति-
*यदि हानिः स्यात्तहीत्थं कथं स्पादिति भावः