किम्वदन्ती स्यादित्यादि संशयः। अस्मिन्नपि पक्षे
युगाय मिथुनाय ते तुभ्यं त्रु टिः संशय इति योजना। एतेन
तव प्रियाऽपि संशयं करोतीति गम्यते। अयं कपटी प्रियसखीं-
यथा तत्याज मामपि तथैव त्यजेत्तथा सति सख्यो जनाश्च किं
किं वदिष्यन्तीति संशयनिमग्नासीदिति गूढाशयः॥ ८॥ यद्वा
युगाय मिथुनाय ने तुभ्यं का त्रुटिः को विच्छेदः का हानिरिति
यावत्। त्रुटिस्त्वस्माकमेव सम्पन्ना आननम् आत्मनोमुखं पश्य
त्वमेवेति शेषः। तव मुखं प्रियामुखं च श्रीमदेव दृश्यते। अस्मा-
कमाननन्तु काननं मलिनं कुत्सितं त्वमेव पश्य।अहो तव दौरा-
त्ममिति गूढाभिप्रायः। त्रुटिशब्दो विच्छेदे प्रयुज्यमानो दृश्यते।
यथा अक्षरत्रुटिः सूत्रत्रुटिरित्यादौ 'त्रुट च्छेदने' चुरादिः आत्म-
नेपदी सेट् 'इगुपधाकिदिति इः। यद्वात्रुट च्छेदे इति तुदादिः
परस्मैपदी सेट् 'इगुपधात्किदिति इः त्रुटिः ॥ ६ ॥ यद्वा युगान्
चतुर्युगानयते एतिवा गच्छतीति युगायस्तत्सम्बोधनम्। हे
युगाय! चतयुगेऽपि त्वं गच्छसि नित्यत्वाच्चिरजीवित्वाच्च।
अतस्ते तव त्रुटिः का अल्पकालः कः तस्य गणनैव नास्ति। त्वा-
मपश्यतामस्माकमेव त्रुटिर्युगायते युगवदाचरति। आननम-
स्माकमुखं काननं कुत्सिताननमेव पश्यताम्। स्वप्रियांच पश्यति
सङ्कीर्णभङ्गश्लेषः। अय गतौ पचाद्यजन्तः इण्वा ॥ १०॥ यद्वा
जडे जले डलयोरभेदात्। अयम्भावः। कानने मुखदर्शनसाधन
त्वद्वियोगादस्माक मुखं कुत्सिताननमेव सम्पन्नम्। त्वत्प्रिया तु वियोगाभावाच्चारमुखी एव त्वमेव पश्य किं कथनेनेति भावः।