जेन गृह्णाति ॥६॥ यद्वा तव लक्षम्या मुखमपि तथैव, चशब्दउ- भयोः समुच्चयार्थः, भवान् जडो मूर्खः। सूक्ष्मैलां भुक्त्वापि नेत्यपन्हवं करोति, अतः कुटिलः। मया भुक्ता इति स्फुटोक्तौ का हानिः, तां स्वप्रियामुदीक्ष , अयम्भावः। अन्यासु युवतिषु कौटिल्यकारी अयं मामपि कदाचित्कुर्यादिति भयेन पलायिता स्यात्. तस्मात्तामपि उदीक्ष पश्य। ईश दर्शने,अनुदात्तत्वलक्ष- णमात्मनेपदमनित्यम्। अन्यथा उदीक्षतामिति पद्यन्तपक्षेऽपि उदीक्षमाणानामिति स्यात्। दृशा xम्पश्मकृत् स्वदृशाम्पक्ष्मच्छे- दकोभवेति शेषः; अयम्भावः। पक्ष्मच्छेदे निमेषकृतविच्छेदाभावे स्वप्रियाम्प्रति निमेषशून्यदृष्टिपातेन दर्शने नैव पलायिता भवेत्। कृञ् हिंसायाम्। क्विवन्तः कृतीच्छेदने वा। एतत्सर्व भवाजा- नाति,अस्मान्प्रत्येव कौटिल्यं करोति अतो भवान् अजडः सर्वज्ञ इति स्तुतिः ॥७॥ यद्वा 'संशयेऽपि चे' त्यमरात्रुटिः संशयः, अयम्भावः । मिथुनीभूयाह्निवनमटामि, माम्प्रति कीदृशी
*यद्यस्मिन्नर्थे तात्पर्य न स्यात्तहि चूर्णपदमप्युपात्तस्यात्तदनुपादाना- देव कुन्तपदमात्रेण कामप्रासबोधः। चूणीः सूक्ष्माः कुन्तला यस्मिन्निति मुखविशेषणम्। अर्शश्राद्यजन्तो वा। अस्मिन्नर्थे कुटिलशब्दोऽप्यनुकूलः कामप्रासाअपि कुटिलाः कुन्तला अपि तथैव अस्मिन्पक्षेऽप्येकपदमस्तु।
+नन्वेतत्पक्षे दृशामिति बहुत्वमनुपपन्नम्। न हि कृष्णस्य बहुदृश इति तु न शक्यम्। महस्वाक्ष इति श्रुतेः।