पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
गोपीगीतार्थकौमुदोसहिता-


स्यात्साप्यह्नि सुरते लज्जते, यदर्थम्भवानहि काननमटति तत्तु नैव सम्भाव्यते। वक्टबोद्धव्यवैशेष्याद्योग्यताबलाच्च पश्यति। चुम्बतीति शेषत्वेनान्वेति। किञ्च वने योषिन्मेलनमपि दुर्ल. भम्। नहि वने योषितां कर्त्तव्याभावात्ता आगच्छन्ति, यदर्थ- म्भवान् काननमटति। एतत्तवाटनं व्यर्थमिति गूढाशयः ॥५॥ यद्वा यदर्थ सूक्ष्मैलाप्राप्तये भवानहि काननमति त्रुटिः सूक्ष्मैला। 'सूक्ष्मैलायां त्रुटि: स्त्री स्यात्कालेऽल्ये संशयेऽपि चे'-त्यमरः। केति काकुः। वृन्दावने सूक्ष्मौला बह्वयःसन्ति। अतस्ता सुलभा इति किंशब्दार्थः। मया तु न प्राप्यत इति नैव त्वया वक्तव्यम्। आननम्पश्यताम्। आननसुगन्धादेव सूक्ष्मैला भक्षि- तेति निर्णीयते। द्विवचनन्तु कृष्णप्रिययोरभिप्रायेण पुनश्च नेति नाच्यताम्। त्वामपश्यनामित्यत्र त्वामिति पृथक् अइति पृथ- क्सम्बोधनम्।। पश्येतिक्रियापदम्। तामिति द्वितीयैकवचनान्तम् हे अ! वासुदेव त्वाम् आननम् तवेति शेषः। ताम् तव प्रियाम् तस्या आननम्पश्य। त्वया तयाच सूक्ष्मैला भुक्ता एव भुक्त्वाड- पि नेति निषेधति। अतएव कुटिलेति तव सम्बोधनम्। युगाय ते तुभ्यं त्रुटिः सूक्ष्मैला उभौ सक्ष्मैलां भुञ्जाते, तथापि नेति निषेधति, अतः कुटिलो भवान्। अस्माकं मध्ये एकाऽपि सूक्ष्मै- लां न प्राप्नोति त्वन्तु मिथुनोभूय भुङक्षे 'युग्मन्तु युगलं युग मित्यमरः। अतस्तव श्रीमुखं श्रीमन्मुखमपि कुन्तलमेव न तु चूर्णकुन्तलम्, अयम्भावः। 'प्रासस्तु कुन्त' इत्यमरात्प्रा- सानेव गृह्णाति। अस्माकं मारणाय कामप्रासमेव कुन्तलव्या: