पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
गोपीगीता-


 अटति यद्भवानह्नि काननं

  त्रुटिर्युगायते त्वामपश्यताम्॥

 कुटिलकुन्तलं श्रीमुखञ्च ते।

  जडउदीक्षताम्पक्ष्मकृद्दशाम् ॥१५॥

अटतीतिायद्वा अहि काननमटति सतित्वयीति शेषः। कस्यब्रह्मदेवस्य आननं मुखं आननं लपनं मुख' मित्यमरः।काननं गहनं भवति अर. ण्यवत्कृष्णवर्णं भवति।भवान् वृन्दावने यत्कर्म करोति तदृष्ट्वेति- शेषः। 'काननं वन' मित्यमरः। अयम्भावः। असावभूतपूर्वः सर्वो- कृष्टो नन्दसूनुर्म हमप्यतिशेते नेमं निश्चेतु शक्नोमीति तर्क- यल्लजयया ब्रह्म देवमुखं गहनवत्कृष्णं भवति ॥१॥ यद्वा कस्य ब्रह्मदेवस्य आननं मुख काननमीषदाननं स्वल्पाननं भवति मलिनम्भवतीति यावत् भावस्तु पूर्ववत्। 'ईषदर्थे' इति कोः कादेशः। 'अजादावपिपरत्वात्कादेश' इत्युक्तेः । 'ईषदर्थे कु' इत्य- मरः ॥२॥ यद्वा ब्रह्मदेवमुखं मलिनीकर्तुं भवानहि काननमटति ॥३॥ यद्वा कस्या युवत्या इतिशेषः। एवञ्च कस्या युवत्याः आननं मुखं काननं कतु मलिनीकर्तुं भवान् काननमटति वनमटति। अस्माकमेव स्यादतस्त्वामपश्यतामस्माकं त्रुटिर्यु- गायतेऽतो वयमेवकाननाः सम्पन्नाः ॥ ४॥ यद्वा कुटिलकुन्तलं श्रीमुखञ्च ते आननं मुखमह्नि का स्त्री पश्यति चुम्बति वा। या पतिव्रता स्यात् सा परपुरुषमुखमेवनैव पश्येत्।या तु स्वैरिणी