sच एव नतु वेणोस्तथापि तदुत्पादकत्वेन तत्राध्यवसायः ॥१५॥
यद्वा सुष्ठु चुम्बितम्, चुम्बनञ्च चेतनधर्मः। चुवि वक्त्रसंयोग
इति निष्पन्नत्वात्। कथमचेतने वेणौ सम्बध्येत तस्मात्स्वरित-
वेणुनेति प्रथमान्तम्। स्वरितो वेणुर्यस्य स, स चासौ ना पुमान्
भवान् भवता सुष्ठु चुम्बितम्। इतरत्स्पष्टम् ॥१६॥ यद्वा सुद-
र्शनाद्यायुधवद्वेणुरपि सचेतन पवेति बोध्यम्। भगवत्पादस्पर्श-
नमात्रेणैव शिलापिगौतमपत्नी सचेतनाऽभूच्चेदधरामृतसिक्तः
सन् वेणरचेतनोऽपि सचेतनः किं न भवेत्। अमृतसेचनेनैव श्री
रामानुजो लक्ष्मणः कपयश्व संजीविताः। अलमतिपल्लवेनेति
प्रकृतमनुसरामः। इतररागविस्मारणं नृणामिति इतरे अन्येनीचा
वा ये रागाः नारदगन्धर्वोर्वशीभिर्गीतास्तेषां विस्मारणम्,
म्भावः। तैगीता अपि रागा भगवद्गीतरागेभ्योनीचा एव, याव-
द्भवद्गीतं रागं नाशृण्म तावत्तानपि रागत्वेना शासिष्म
भवद्रागश्रवणानन्तरन्तु ते नीचास्तुच्छा अन्ये एव नतु ताला-
दिसम्पन्नाः। 'इतरस्त्वन्यनीचयो' रित्यमरः ॥१७॥ यद्वा इतर-
रागस्य वेगरुडस्य च स्मारणम् स्मृतिजनकम्, अयम्भावः।
भवद्गीतरागश्रवणेन निन्द्यतयाऽन्यरागस्मृतिः, गरुडपक्षोद्भूत-
सामरागस्मृतिश्च जायते। अतस्तादृशरागस्मारक मधरामृतन्-
देहि। तयाधरामृतं पीत्वा तेषां स्मरणम्, तेभ्योऽपिरसास्वाद-
नम्। अधरामृतपानेऽपि तथैवेति समानधर्मत्वात्। एकसम्बन्.
धिज्ञानस्यापरसम्बन्धिस्मारकत्वात् ॥ १८ ॥
.