पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
गोपीगीता-

त्यकत्व सुरत एवं सज्जते।यथा मोक्षसुधादायिनं भगवन्तम्प्रा प्यापि त्वं विहाय सुरतमेव प्रार्थयामः। श्रीधरस्वामिपादास्तु वृधुवृद्धावित्यस्यैव वर्धनमित्यभिप्रेत्यव्याचख्युः। परन्त्वजसाधारणस्थ सुरतवर्धनत्वस्य भगवति प्रतिपादनन्तु नैव चारु। तस्माद्वर्धच्छेदनपूरणयोरितिचुरादेरेवभवितुमर्हति। लीलापक्षे सुरतपूरणत्वम्। परमार्थतस्तु सुरतच्छेदकत्वप्रतीत्या मदुक्तपक्षः श्रेयानिति मन्ये ॥ १०॥ यद्वा सष्ठु रतं प्रेमा यस्मिन्नात्मनि तस्य वर्धनं पूरणम्, आत्मनस्तु कामाय सर्वम्प्रियम्भवती'-ति श्रुतेः। आत्मज्ञानपूरकम्। अतएवशोकनाशकम्। 'तरति शोकमात्मवि, दिति श्रुतेः। न ह्यात्मज्ञानी सुरते प्रवर्तते। अत एव सुरतच्छेदकम् ॥ ११ ॥ यद्वा हे सुरतेति सम्बोधनम् हेदयालो! इति तदर्थ। 'स्याद्दयालुःकारुणिकः कृपालुः सूरतः समा' इत्यमरे ह्रस्वदीर्घयोः पाठात् वर्धनं संसारभयनाशनम् आत्मज्ञानपूरकम्। यो दयालुः स दुःखनाशकमेव वितरति, अतो वित रेति सम्बोधनमेव श्रेयः॥ १२॥ यद्वा स्वरितवेणुना स्वरा निपादादयः सप्त ते सञ्जाता यस्य स स्वरितः स चासो वेणुस्तेन ॥१३॥ यद्वा स्वरितपदं स्वरितत्वधर्मपरम् द्वैकयोरिति वत्। स च प्रधानभूतोऽधिकारहेतुः। स्वरितेनाधिकार इति पाणिनिः, स एव वेणुः। एतेन वेणोरसाधारण्यं बोधितम्। इतरनटनादितवेणुरपि स्वरित एव। एवं च भगवद्वेणुसाधारणम्भवेदित्यन्तु न। अतो मदुक्तव्याख्यानमेव वैलक्षण्यं बोधयेदिति मन्ये ॥१४॥यद्वा स्वरित उदात्तत्वानुदात्तत्ववदजभिन्नोवेणुस्तेन। यद्यपि स धर्मो