पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
गोपीगीता-


ल्पना प्रतीयते। 'रश्चरामेऽनिलेवह्ना'-विति कोशः ॥१॥ यद्वा कामाग्निशमकं रं ज्ञानाग्निं न यच्छसि ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने ति भवद्वचनाज्ज्ञानाग्निप्राप्तौसर्वकर्म भस्मी- भूतं स्यात्तथा च कामपीडा दुःसहापि नश्यदित्यभिप्रायः ॥२॥ यद्वा नीलाश्च ते कुन्ताः कामप्रासास्तान स्वरूपेण लान्ति आ- ददत इति नीलकुंतला स्तैश्चूर्णकुन्तले कामप्रासोक्त्या अतीव मर्मच्छेदकत्वं प्रतीयते। प्रासा अपि नीलाः कुन्तला अपि नीला- स्तीक्ष्णाः कुटिलाश्च, अत उभयो रभेदरूपकं तच्चानुभया- त्मकम् ॥३॥ यद्वा कामशमका ज्ञानात्मकाः प्रासा एव तान् लान्ति ते ज्ञानिनः तैः करणैः कृत्वा रं कामाग्निं प्रति रं ज्ञाना- ग्नि यच्छसि अतः कामो भस्मीभवति अतः अन पुनरुदेति ज्ञानाग्निदग्धस्य पुनरनुत्पत्तेः। स्मेति निश्चतम्। अस्मिन्ने- वार्थे श्रीव्यासाभिप्रायः अन्यथा चूर्णकुन्तलपदम्विहाय नी- लकुन्तलपदं साधारणं किमिति लिलेख । धूसरादिव्यावृत्तये इत्यपि नैव वाच्यम्। धूसरचूर्णकुन्तलवन्मुखस्य वैरूप्यात्तद्द र्शनेऽनुरागस्यैव भङ्गापत्तेः कामोत्पत्तेर्दूरापास्तत्वात्। श्यामसु- न्दरत्वस्यैव भङ्गापत्तेश्च स्वयं कृष्णस्यालकाः कथं शुक्ला भवेयुः। न हि किशोरावस्थस्यालकाः शुक्ला दृश्यन्ते,


 *केवलं स्मरं यच्छस्यर्पयसि न तु सङ्गं ददासीति कपटस्त्वमि- तिभावः,इति स्वामिब्याख्या । न तु सङ्गं ददासीति तु क्लिप्ट कल्पना- म्बिना कथं स्फुरत। अपदच्छेदे तु तेनैव निषेधेन प्रतियोगिविधया संभो- गप्रतीतेलघुत्वम्।