पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
गोपीगीतार्थकौमुदीसहिता-


भवन्मनः काम्प्रति गच्छति ॥ १६॥ यद्वा कलिलशब्दो नवीन पुष्पादिषु प्रयुज्यमानो लोके दृश्यते, तदभिप्रेत्यैव श्रीस्वामि पादा अपि अस्वस्थपरतया व्याचख्युः। भवान् कोमलत्वं गच्छति इति हेतोस्तृणादयः कर्कशा भवन्तं पीडयन्ति, अतो नो मनः सीदतीति योजना ॥२०॥ यद्वा नलिनसुन्दरमपि स्थान- मपदमस्थानमेवेति भङ्गश्लेषः। यतः एतत्पदं स्थानं ते तव पदमडघ्रिं तृणादिभिः सीदतीति हेतोरपदमस्थान मतो मनः सोदतीति योजना। 'पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इति कोशः। पदमपदमिति विरोधाभासस्तु अर्थान्तरपरत- यासमाधेयः॥ २१॥

दिन परिक्षये नीलकुन्तलै।

  र्वनरुहाननं विभूदाबृतम्॥

घनरजस्वलं दर्शयन्मुहुर्मनसि नः।

  स्मरं वीर यच्छसि ॥१२॥

 यद्वा स्मर मित्यत्र स्मेति पृथक् मिति पृथक्। वीः अ इति च्छेदः अशब्दोऽभावपरः। तथा च वीरिति प्रथमैकवचनान्तम् सम्बोधनम्वा। वीगत्यादौ क्विवन्तः। गतिव्याप्तिमत्त्वादित- दर्थः। रं कामाग्निं नो मनसि यच्छसि तच्छमकं सम्भोगन्तु अ नैव यच्छसि स्म निश्चितम्। एतत्पदच्छेदाभिप्रायेणैव श्रीस्वामिपादव्याख्याभिप्राय इति मन्ये अन्यथा क्लिष्टक-