सामग्री पर जाएँ

पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
गोपीगीता-


चलसि यद्जाच्चारयन्पशू-

  न्नलिनसुन्दरं नाथ ते पदम्।।

शिलतृणाङ् कुरैः सीदतीति नः।

  कलिलतां मनः कान्त गच्छति ॥११॥

 चलसीति यद्वा यदा पशूश्चारयंस्त्वं व्रजाच्चलसि तदा नलिनैः सुन्दरम्पदं स्थानम्। 'पदं व्यवसितस्थाने' त्यादि- कोशः। नाथ ते याचते तुभ्यम् शिलतृणाकुरैः सीदति पीडयति। त्वया याचितं नलिनसुन्दरं स्थानं नास्ति, तृणादिभिस्त्वां सीद- तीत्यस्माकं मनः कलिलतामस्वास्थ्यं गच्छति। नाथते इति शत्रन्ताच्चतुर्थ्येकवचनम्। आशिष्येवात्मनेपदात् ॥१॥ यद्वा कलिलस्य गहनस्य भावस्तामित्यर्थः। दुरवगाहत्वं गच्छति जानाति 'कलिलं गहनं समे' इत्यमरः। नो मनो निर्णेतुं नैव शक्नोति भवान्नन्दनन्दनः। नन्दस्याप्येक एव पुत्रः। भवत्पदञ्च नलिनमिव सुन्दरं नलिनादपिसुन्दर वा। नलिनात्कोमलत्वां च व्यज्यते, यतो नलिनसुन्दरं स्थानं भवान्नाथति, किं च नलि- नानि सरसि शिलादिभिः सहैवैधन्ते न तु भवत्पदमिति व्यति. रेको गम्यः। एतादृशो भवान् किमर्थं पशूश्चारयति तृणादिभि- रगम्यमरण्यमटसि। अत्र हेतुं न पश्यामः। यथा गहनं निर्यातुं मनो नैव शक्नोति तद्वत्त्वल्लीलामपि निर्णेतुं नो मनो नैव शक्नोतीति भावः ॥२॥ यद्वा कलिः संयुगस्तंलाति आदत्ते इति