पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
गोपीगीतार्थकौमुदीसहिता-

कलिलस्तस्यभावस्तराताम्। 'कलिसंस्फोटसंयुगा' इत्यमरः, अयम्भावः। अस्मिन्विषये युवतीनां मनांसि मिथः संयुगं कुर्वन्ति काचिदेकं हेतुं वदति, अन्या तु तं खण्डयित्वा अपरं हेतुं दर्शयति। एवमन्यापीति परस्परं युवतिमनसा संयुगः॥३॥ यद्वा कलो मधुरास्फुटशब्दः। 'ध्वनौ तु मधुरास्फुटे। कल" इत्यमरः। सोऽस्ति यस्मिन् स कली। वीणादिस्तं लाति आदत्ते इति कलिलो गायनो नटस्तस्य भावस्तत्तां गच्छति स्मरति इत्यर्थः। मधुरास्फुटशब्देनातीव मनोरञ्जनं गानं नटवद्भवता सम्पादितं स्मरामीत्यभिप्रायः ॥ ४॥यद्वा हे कलिल! अस्वस्थ तां भवतानीतां सखी प्रति नो मनो गच्छति स्मरति। सा सखी अतीव कोमलाङ्गी तृणादिभिः पीडिता स्यात्। कथङ्कार भवता साकं विहरेदिति अस्माकंमनस्तां स्मरति। कलिलपदस्यास्वा- स्थ्यपरतया श्रीस्वामिभिः प्रतिपादनात् ॥ ५॥ अविचार्यान्तर्. हितोऽभवम्। गोप्यस्तु कदाचित्सात्वतां कुले हेवासुदेवेत्यादिना सम्बोधयन्ति, कदाचिन्नन्दः शृणुयातर्हि किं किं भवेत्। किंच पातिव्रत्यपुरःसरं माम्परित्यज्य स्वपतिम्प्रति निवर्तितुमनस इमा अहमेकाकी विपिने कथं स्थास्यामीत्यादिभयाक्रान्तमनस- स्तवाप्यस्माकमिव मनसोऽस्वास्थ्यमेवेति तत्सम्बोधनार्थाः॥६॥ यद्वा कलिः कलहस्तं लाति गृह्णातीति कलिलस्तस्य भाव- स्तत्ता तां कलहकारित्वं गच्छति, पूर्ववत्कलहं कुर्वन्ति ॥७॥ यद्वा कलिः कलिका तां गृणातीति पूर्ववत्कलिकापदस्था- रस्येन कोमत्वं स्मरतीत्यर्थः ॥ ८॥ यद्वा कलियुगादातुर्भावं