कृष्णावतारोऽपि शिवाशून्यशिवावतार इत्यभिप्रायः, नशब्दसमासः ॥२२॥ यद्वा हेउम!नः मनः न क्षोभयन्ति हि। अस्मिन्पक्षेअर्शआद्यजन्त उमशब्दः। नटस्येवानेशावतारग्रहीत: कुहकत्वमित्यभिप्रायः। उमपदेन परपुरुषत्वम्बोधयता प्रहसितादीनां मनःक्षोभणहेतुत्वं निराकृतम्। नहि पतिव्रतानामस्माकम्परपुरुषप्रहसितादयो मनःक्षोभणहेतव इत्यर्थप्रतीत्या पदार्थहेतुकं काव्यलिङ्गम्। ननुनोमेत्येकपदपक्षे शिवस्यैव कथम्बोधः। उमाशून्यघटादिबोध एव कथंनेति चंच्छृणु। नहितवाक्याद्यज्जातीयम्प्रतीयते । नञ्घटिनवाक्यादपि तज्जातीयस्यैव प्रतीतेः। यथा सवत्सामानयेति वाक्याद्गोत्वजातीयस्यैव प्रतीतिस्तद्वद वत्सामानयेति वाक्यादपि गोत्वजातीयस्यैव प्रतीतिर्न तुमहि ध्यादेरिति तत्त्यमवेहि ॥ २३॥ ।
अहो गोपीनां कृष्णसम्मुखीकरणचातुर्यम्। निन्दाप्रेमभयप्रदर्शनपुरस्कारेण सम्मुखीकरणयराः सत्यो नानार्थकशब्देन भगवन्तमपिमोहयन्ति। कुहकपदप्रयोगेणपूर्वं निन्दा तन्मुखेन प्रेमा प्रहसितादिस्मरणस्य सनः क्षोभणहेतुत्वात् प्रेमाणमन्तरेण तथात्वानुपपत्तेः। तथाच व्याजस्तुतिःनिन्दयास्तुतेःपर्यवसानात्। पदार्थहेतुककाव्यलिङ्गपक्षे नहि पतिव्रतानामित्यादि प्रतीतेर्माम्परित्यज्य स्वपतीन्प्रति गमिष्यन्ति, कथमहमरण्य एकाकीस्थास्यामीति भयेनास्मत्सन्निधिर्भविष्यतीत्यर्थप्रतीतेर्गोपीभ्यो भयम्। एवञ्च भगवन्तमपि मोहयन्त्यो गोप्यः प्रकृतय एवेति पूर्व मुक्त मित्यलं प्रपञ्चेन।