यद्वा हृदि इत्येकम्पदम्। स्पृश इत्येकं षष्ठयन्तम्। हृदयाख्य-
निम्नदेशे अस्माकमिति शेषः। स्पृशतस्तव याः सम्विदः ता इति
योजना। अस्मदुरसा सह त्वदुरोमेलनसमये किं कृत्वा
अलोभयत्, ताः सर्वाः क्षोभयन्ति प्रतिज्ञातं नैवदत्तमतः कुहक
इत्यभिप्रायः ॥ १७ ॥ यद्वा कुत्सितो हो कोपो यस्य कुहः।
ततोऽज्ञातादौ ® कः कुत्सितेवा। कुत्सितकोपवत्वाद्धृदिस्पृश
उक्त्वापि पलायितः। कुपदेनकेनाचातीवकुत्सितत्वम् ॥ १८ ॥
यद्वा कौ पृथिव्यां हो वारणःश्रेष्ठः। (सिंहशार्दूलनागाद्याः पुंसि
श्रेष्ठार्थगोचराः,। ततोऽज्ञातादौकः अनुकम्पायांवा ॥१६॥ यद्वा
पृथिव्यां शूली एव ईश्वरएव 'हः कोपेवारणेहश्चतथाशूली प्रकीर्ति
तः, इति कोशः॥२०॥ यद्वा नो इति निषेधार्थकमव्ययम्,। 'नह्यनो,
इत्यमरः।म इति सम्बोधनमर्श आद्यजन्तम्। हे समुद्रपुत्रीपते! हेनि
त्यसम्पत्सम्पन्न ! वा हेनः! इत्यपिसम्बोधनम्। हेअस्मत्पुरुष! ताः
सम्विदन्ताः नःमनः अस्माकं मनः नो क्षोभयन्ति। हि हेतौ प्रसि-
धौवा, अयम्भावः। ऐन्द्रजालिकेन कुह केन निर्मितां मायां दृष्ट्वा
न कस्यापि मनः क्षोभते। एतदलोकमिति मन्यते तद्वत्त्वत्कृतम
पिवयमलीकत्वेन निश्चिनुमः। अलीकदर्शने न मनः सञ्चल ति।
एतदर्थाभिप्रायेण कुहकपदेन सम्बोधयामासुः ॥२१॥ यद्वा
नोमेत्येकम्पदम्। न विद्यते उमा पार्वतीयस्य तत्सम्बोधनम्।
*कुत्सितकोपवत्वेन त्वमज्ञातः यदिज्ञातो भवेत्तर्हितव दूर मेव भवेम, तथाचेत्थं दुःखं नानुभवेमेति भावः