पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
गोपीगीतांर्थकौमुदोसहिता-

सप्तम्येकवचनम्। रहसि सुरतं याचमाने त्वयि अस्माकं ध्यान मङ्ग मवयवमस्माकमेव लातिगृह्णाति एतादृशं ध्यानम्। एवञ्च रतिसमये उभयोः सारूप्यं वर्णितम् ॥ ११ ॥ यद्वा विजन्ताच्चतेश्चतुर्थ्येकवचनमस्तु। तथाच रहसि भगवद्ध्यान मेवोचितन्तदपि त्यक्त्वा सुरतमेवेच्छसि, अतोऽध्यानं चेत्यर्थः। तस्यैव विशेषणमङ्गलमिति, अयम्भावः। एकान्ते सर्वदैव सुरततत्परस्य ध्वजभङ्गो भवति, अतोऽङ्गं प्रतीकं शिश्न लाति आदत्ते ॥ १२ ॥ यद्वा अध्यान मिति पृथक्, लविशेषणम्। अङ्गेति पृथक् सम्बोधने कोमलालापे वा अयम्भावः। लमिति दानार्थकम्। 'लो दाने च प्रकीर्तितः, इति कोशः। चिन्ता- शून्यदानं करोषि। यानि दानार्हाणि वस्तूनि पश्यसि तानि ददासि। श्वः किम्भक्षिष्यामिति विचारं नैव करोषि। एतदपिनो मनः क्षोभहेतुरिति गूढाशयः ॥ १३॥ यद्वा नो इत्योदन्तम् व्य यम्। निषेधार्धकम्। मनांसि अस्माकमितिशेष:,नो क्षोभयन्ति। यतो भवान् कुहकः कपटिषु मनःक्षोभणमनुचितमेव। कपटिषु कपटमेवोचितमिति गूढाभिप्रायः ॥१४॥ यद्वा कुहकन इत्येक सम्बोधनम्। कुहकश्चासौ ना इति कर्मधारयः। स्त्रीषु सर्वस्य पुरुषस्य दया दृश्यते त्वन्तु कपटी पुमान् इति निन्दा तथापि मनःक्षोभयन्ति हि इति योजना ॥१५॥ यद्वा हृदि इत्येकम्पदम्। स्पृश इत्येकम्पृथक्षष्ठ्यन्तम्। अस्मत्कुचादिस्प्रष्टस्तव हृदि या सस्विदः इत्थंकरिष्यामि, अलङ्कारादिकं दास्यामि कुचार् दनं देहि इत्यादीनिप्रतिज्ञानानि, ताः अपि मनः क्षोभयन्ति ॥१६॥