पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
गोपीगीतार्थकौमुदीसहिता-


त्वद्विरहान्मुह्यत्यः। गर्भस्तु दुरापास्तः तथापि अधरं न्यूनं यत्सीधु मद्यं तेन आप्याययस्व सञ्जीवय, अयम्भावः। दास्यो हि नीचजात्यः, ता मधु पिवन्ति, मधु विना ता नैव जीवन्ति। तस्मान्मद्यपानं कारयित्वा नो दासीर्जीवयस्वेति ॥ ५॥ यद्वा हे मधुरेति कृष्णसम्बोधनम्। प्रियो हि मधुरो भवति ॥६॥ यद्वा मधु सीधु राति दत्ते इति मधुर ॥७॥ यद्वा रलयोरभेदाल्लाति गृह्णाति अन्येभ्यो मधु ददाति स्वयं गृह्णाति चेत्यर्थः। या इति पृथक् प्रथमैकवचनान्तम्। भागुरिमते आवन्तम् प्रथमैकवचनान्तम्। गिरा इति पृथक तच्च कस्याश्चिद्गोप्या नाम! तस्या एव या इति विशेषणं प्रधानार्थकम्। हे वल्गुवाक्य॥ इति पृथक् सम्बोधनम्। या इति जसन्तम्। ब्रजयोषित इति तदर्थः। बुध मनोज्ञ इति पृथक्, एकम्वा। ज्ञानिनामपि मनोज्ञ न तु योषिता मेवेत्यभिप्रायः। या इति प्रथमैकवचनान्तम्। वीविशेषणम्। एता इमाः सर्वा योषितः इति सन्निहित योषिन्निर्द्देशः। भवकिङ्कर्यस्ता अधरसीधुना आप्याययस्व नः इति योज्यम्। हे अ! वासुदेव ॥ ८॥यद्वा विधिकरीरित्येकम्पदम्,इ विस्मये, मेति पृथक्, तदर्थो लक्ष्मीः,अवीरितिच्छेदः। 'अवीर्नारी रजस्वले'-ति कोशः। एताः सर्वा मुह्यतीः। शेषं पूर्ववत् रजस्वलानां मोहहेतुश्च गर्भधारणभङ्गः। श्रीभगवति प्रयुज्यमानो वीरशब्दो न भटत्वम्प्रतिपादयति। किन्तु विना स्वसखेन जीवाख्येन पक्षिणा सह ईते। एक शरीरं नीडलक्षणं गच्छतीति वीरः; 'द्वासुपर्णा सयुजौ सखायावि' तिश्रते;