पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
गोपीगीता-


॥६॥ यद्वा मा निषेधार्थः। पूर्वोक्ता वीस्तु मा न मुहाती। इ आश्चर्यम्। गर्भधारणस्य पूर्वमेव सत्त्वादिति गूढाशयः ॥१०॥ यद्वा या गिरा सा मुह्यतीत्यनेन भवन्तमृते सरस्वती मुह्यती- त्यर्थः। या वाणी ज्ञानदात्री सापि मुह्यती, इ विस्मयः ॥ ११ ॥ यद्वा अधरेति सम्बोधनम् , अयम्भावः। मद्विरहेऽपि प्रामादिकं दास्यामि। पतित्याजिता अपि तत्रैव कृष्यादिना जीविष्यथः। इत्यपि भवता नोच्यताम्। ययाति शापात्त्वं राज्यभाग न, कथं प्रामादिकं दास्यसि। न विद्यते धरा यस्येति तदर्थः। तस्मान्म- द्यदानेनैवास्माजीवयेति। मधुपदसन्निधानादागिरा पदेन कोकिल एवबुध्यते, 'पञ्चमोदन्चने काले कोकिलः कोकिलोऽभवः दित्यादि बहुशो दृश्यते॥१२॥यद्वा अधर न्यून कुत्सितवा अधरौन्यूनकुत्सि ता'-वित्यमरः। स्वपतिं त्याजयित्वा स्वयम्पलायते,नास्मान्पाति। अतो न्यूनत्वं कुत्सितत्वञ्चेति सम्बोधनार्थः ॥ १३ ॥ यद्वा अधः असीधु इति पृथक् असीधुइतिअधोविशेषणम्। अधोदशनवासः। असीधु मद्यशून्यम्। अधस्तादपि चाधर"इत्यमरादधः शब्दोऽध- रोष्ठे प्रयुज्यते, अयम्भावः। यदि अधरोष्ठेमधु स्यात्तर्हि तत्पानेन जीविष्यामः। इदानीन्तु वने तदेव नास्ति कथं जीवयस्व। जीव- नोपायमन्यं न पश्यामः। अतो ना इति च्छेदः। भवान् ना पुमा- नेव, न तु स्त्री, पतेनरतिदानेनैवाप्याययस्व नः इति योजना। अयमेव ना पदस्य गूढाशयः ॥ १४ ॥ यद्वा न विद्यते मधु यस्मादिति पञ्चम्यर्थे बहुब्रीहौ तु उत्कृष्टसीधुमदोष्ठचुम्बन- पूर्विकां रतिन्दत्वा आप्याययस्व नः इति गूढाशयः। अधर-