पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
गोपीगीता-जोगम-

मधुरया गिरा वल्गुवाक्यया

  बुध मनोज्ञया पुष्करेक्षण ||

विधिकरीरिमा वीर मुह्यती-

  रधरसीधुनाप्याययस्व नः ॥८॥

मिधुरयेति।यद्वा मधुर्वसन्तः असावितिशेषः 'मधुर्वसन्ते चैत्रेचे तविश्वः। अयेति पृथक्सम्बोधनम्। एतीत्ययः। पचाद्यजन्त इण्- हे गमनशीलेति तदर्थः। 'वसन्ते भ्रमणं पथ्यमथवा वन्हिसेवन'- मित्युक्तेः। गत्यर्थस्य ज्ञानार्थत्वाद् हेशानवन्! वक्ष्यमाणं भवान् जानातीत्यभिप्रायः। पचाद्यजन्तोऽमधातुर्वा ॥१॥ यद्वा आ गिरा इति च्छेदः, आ समन्ताद्गीर्यस्य स आगीः,कोकिलस्तेन वसन्ते कोकिलो रौतीति प्रसिद्धिः। तेन मुह्यतीः उद्दीपकत्वात्तस्य मधो- श्चोदीपकत्वात्, तेनैवोच्चरितया वल्गुवाक्यया मनोज्ञया ॥२॥ यद्वा हे बुध! इति पृथक् संबोधनम् हे विरहिमर्मशेति तदर्थः ॥६॥ यद्वा हे मनोज्ञ! इति संबोधनम्। या इति प्रथमैकवचना- न्तम् ॥४॥ यद्वा वीः अ इतिच्छेदः, वीः किवन्तःगत्यादि तदर्थः। त्वया सह या गोपी वीर्गता सा तु न मुहती। त्वयैव रममाणा वयं विरहिण्य एव मुह्यत्यः सातु वीर्गर्भ भवती, अयम्भावः। सा तु गोपी गर्भवती। वी धतोः प्रजनार्थत्वात् प्रजनञ्च गर्भग्रहणम्। एवं च तस्यान्त्वत्तो गर्भः। त्वया साकं रत्यादिकं करोति तव किङ्करी न वयन्तु तव कार्यकर्यस्तथापि