पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
गोपीगीतार्थकौमुदीसहिता-

कुचा अतितीक्ष्णशरायतस्तीक्ष्णचूचुकवन्तः, वाणाग्रलोहा अपि तीक्ष्णा नीलाश्च चूचुकान्यपि तथा, शरा अपि कठिनाः, कुचा अपि तथैव, परन्तु शराः सूक्ष्माःकुचास्तु स्थूलतराः,अतो विलक्षणशरास्तस्मात्कुचेषुभिरेव हस्तं छिन्धि इति ॥६॥ यद्वा नो हस्तं छिन्धि, किञ्च फणिफणार्पितं ते पदाम्बुजमपि कुचेषु यथा स्यात्तथा छिन्धि, अयम्भावः। अतिक्रूरच्छेदनधर्मी कालियोऽपि अतिकोमलं पादाम्बुजं न हि चिच्छेद, अतिकठोरत्वात्कालियोऽपि नैव शशाक चेदन्यः कः शक्तो भवेत् । अस्माकं कुचा स्तु अलौकिकाः सन्तस्तवकोमलपादच्छेदने ईशते, तस्मादेभिरेव छिन्धि । पादच्छेदे सति भवान् खजः स्यात् तथा सति गतिहीनो भगवान् न पलायने समर्थः। स्यात् एतेन कुचानामतीव काठिन्यं बोधयन्त्यः सुरताय स्वाभिमुखिकुर्वन्तीति परमगूढाशयः। कुचेषुभिः पादछेदनेऽपि कुचपादयो दृढतरसम्बन्धात्त्वत्पादस्पर्शनजन्यसुखप्राप्ति भविष्य तीति गूढव्यङ्यम् ॥१०॥ यद्वा हे प्रणतेति पृथक् देहीति पृथक् नेतिपृथक् अमितिपृथक् हे नतशिरः! अं वासुदेवं त्वां न देहि, किन्तु ते पदाम्बुजं देहीत्यनेन वासुदेवादपि पदाम्बुजस्यैव कामनाशकत्वम्प्रतिपादितम्॥१शायद्वा प्रणतानां भक्तानां कामदेत्यर्थकं प्रणतदेति पृथक सम्बोधनम् ॥ १२ ॥ यद्वा तेषां दुःखखण्डकेत्याद्यर्थः ॥ १३ ॥ एहि आगच्छ 'ओमाङो श्चे-ति साधु न आगच्छसि चेदामङ्गीकारं नागच्छामीति प्रतिज्ञां कुर्वितिशेषः । ततो वयं निराशाः स्वगृहं निवर्तिष्यामहे इति भावः । 'श्रामेवं स्वयमात्मने'-त्यमरः ॥१४॥