पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
गीपीगीता-


इति प्रोक्ता। हे जलशायिन्! वा, कर्शनमित्यस्य पापकर्शनं शत्रुकर्शनमित्याद्यर्थः। यदि तादृशम्पदाम्बुजं नैव ददासि तर्हि हुन्मानसं छिन्धि, एतादृशे निष्ठुरे त्वयि कुतो मनोऽनुरज्यते, मन एव छिन्धि। पुनः कुचेषु स्थितं नः शयं हस्तं च कृणु छिन्धि, अयम्भावः। अस्माकं स्थूलाः कुचा मर्दनमिच्छन्ति पूर्वम्भवत्पा णिमर्दिताः,इदानीन्त्वद्विरहात्स्वपाणिमर्दिताः,मर्दनशालिनं हस्त- मपिछिन्धि,ततो भवान् कृतार्थःस्यादित्यर्थः। तेनातीव खेदोव्य- ज्यते 'शयः पाणि-रित्यमरः ॥ ४॥यद्वा कालियेन स्वफणासु स्वेनैवार्पितम्, अयम्भावः। भगवत्पादलाञ्छितं मां गरूडो नैवा धादित्थं कदा भविष्यतीति कालियाभिप्रायः।भगवानपि तद्बु- ध्वा तद्धृदंप्रविवेश, भगवत्पादश्च फणासुदधौ।प्रहर्षणालङ्कृतिः। कन्दर्पोद्दीपकस्याम्बुजस्य प्रत्युत तन्नाशकत्वोत्त्या विषम- भेदः ॥५॥ यद्वा तृणपदेन तृणावर्त्तः चरपदेन रात्रिञ्चरः' तृण- श्चासौ चरश्चेति(कर्मधारयः),तस्यानु पश्चाद्गच्छतीति तथा। तृणावर्तोरसि पदा निष्पीड्य भूतले पातयित्वा जघानेति प्रसिद्धम् ॥६॥

 यद्वा तृणपदेन तृणावर्त्तः चरपदेनान्यरक्षसां ग्रहणम् ॥७॥ यद्वा श्रिया नितरां केतनं ध्वजमित्यर्थः। 'केतनं ध्वजमस्त्रिया' मित्यमरः ॥८॥ यद्वा युष्माकं शयं केनास्त्रेण कृणुयाम् न ह्यहमस्त्रधारीति चेत्कुचेषु इति क्रियाविशेषणमस्तु। कुचा एव इषवो यस्मिश्छेदनकर्मणि तत् कुचेषु इति भावः। अस्माकं


 नामैकदेशन्यायेन विनापीति रात्रिपदलोपेन वा रात्रिचरग्रहणम् ।