श्चेतुं शक्नुमः। प्रत्युत वीरान् स्वपुरुषानपि अत्याक्ष्म अस्माकं
कीदृग् भाग्यमिति विलापः, किम्पदगम्यः।जलरुहाननविशेषणेन
तापनाशकत्वम्व्यज्यते, परन्तु सरोजस्य कामवाणत्वेन दीपक
त्वमेव विरहिण्यो न विचारपरा भवन्तीति बोध्यम् ॥६॥
यद्वा हेनिजजनेति सम्बोधनम्, नित्यपुरुषेत्यर्थः। " स्वके नित्ये
निजन्त्रिषु इत्यमरः। समयध्वंसनस्मितेति सम्बोधनेन हिरण्या
क्षादिगर्वोऽपि स्मितमात्रेणैव नष्ट इत्यर्थप्रतीत्या परमवीरत्त्व-
म्प्रतिपादितभवति। विशिष्टस्यसंबोधनपक्षे तु तवेषद्धास्य-
दर्शनेन वयम्मोहिताः, सत्त्यो मानन्त्यजाम इत्यर्थप्रतीतेर्युवती
मानभन्जकत्वान्नारायणस्य स्त्रैणत्वमेव प्रतिपादितम्भवेत्॥१०॥
यद्वा अस्माकं जनेति प्रथमसम्वोधनार्थः॥११॥ इत्यादिनापूर्-
वन्तुष्टुवुस्तथापि दर्शनं न ददौ ततो हेजलरुह! हेजडरूह! जलं
जडं तस्मादुत्पन्नस्त्वं मूर्ख एवेति सम्बोधनार्थः *। चारु आननं
नो दर्शयेति निषेधयन्ति। स्मेति निश्चये हेसखे! किमभवत्
नः इति शेषः। न किमपि त्वं करीर्दासीर्भज, दासीपतिर्भवेति
ईर्ष्योक्त्वा निन्दाव्यज्यते। ऋजुबुद्धयाप्राथ्यमानोऽपिनैव करोति
चेत्तम्प्रतिपक्षमा सर्वैः क्रियते एतदुचितमेव ॥ १२ ॥ यद्धा चारू
आननंकिमभवत्, यतो न दर्शयसि दर्शय करी: चिकित्साकरीः
अस्मान्दर्शय। क्रियासामान्यार्थककृञः कृञोहेतुनाच्छीलय-इत्या
*कार्य निदानाद्धि गुणानधीते इति भावः। 'थापा नारा' इत्यादि मानम्।
+नोऽस्माकम् नः नो इति च्छेदसंभबाच्छेशोऽपि मास्तु का॥