पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
गोपीगीता-

वा वीर ॥१॥ यद्वा विर्गरुडः ईर्लक्ष्मीस्ते राति गृह्णातीति रलयोरभेदः। वीरपदोपादानस्यायम्भावः। योषितन्दृष्ट्वावीरप- लायनमनुचितम्, क्लीव एव पलायते, अतः सन्निहितोभव। "लक्ष्मीरीकार उच्यते' इति कोशः ॥ २॥ यद्वा वीरयोषितामित्ये- कम्पदम्। वीराणां योषितस्तासांतेनास्माकम्पुरुषा वीरास्तेभ्यो भयाद्भवानन्तर्हित इति ध्वनिः ॥ ३ ॥ यद्वा वीरानुरागिण्यो योषितः, अतो वीरन्त्वां विचिन्वते। ऋष्यस्यरोहित्पुरुषस्ययो पिदिति भाष्यात्पुरुषस्यैव योषितो भवन्ति। भवांस्तु वीरपुरुषो ऽपि योषितो दृष्ट्वा पलायते। एतदनुचितम् ॥४॥ यद्गा विर्ग- रुडस्तेनेरते गच्छन्तीतिवीरास्ताश्चयोषितस्त्वया साकं गरु- डवाहिन्यो वयमिति तात्पर्यम् ॥३॥ यद्वा गरुडलक्ष्मीं गृह्णा- तस्तव योषिताम्। ब्रजेति क्रियापक्षे हेवीर! गरुडवाहन ब्रज। गरुडवाहनं रोद्धुं कोऽपि नैवशक्नोति ॥ ६॥ ब्रजेति सम्बोधन- म्वा ,हेगमनशीलेति तदर्थः। भजेति सम्बोधनम्वा ॥७॥ 'ये यथा माम्प्रपद्यन्ते तांस्तथैवे-ति श्रवणाद्भवानपि नो भजते इति सम्बोधनार्थः। अन्यथा त्वदुक्तिर्वृथा स्यादिति भावः। क्रिया- पक्षेऽप्येवम्। चारु इति क्रियाविशेषणम्वा चारु यथा स्यात्तथा दर्शय नतु क्रोधभीषणमिति भावः॥ ८॥ यद्वा अभवत् किम्- करीः इति पृथक् कृञो हेत्वादौ टः। टित्वान्ङोप भवत्कार्यक रीर्नः अस्मान किमभवत्। एकमपि शरणत्वं कुत्र गतः, न नि-


 *प्रतीति शेषः यद्वा हेति शेषोऽस्तु अभित इत्यादिना द्वितीया । 'हा विषादशुत्तिषु' इत्यमराः।