पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
गोपीगीतार्थ कौमुदीसहिता-

पालकत्वेन ब्रह्मरूप हेअन्तक! इति सम्बोधनेन बोध्यो भविष्यति। ब्याधो हि अजादिकम्पालयित्वा पोषयित्वा मारयति तद्वदेव भवानपीति सम्बोधनार्थः। यः पालकः स एव मारक इति अतीव निन्दा व्यज्यते। मदमिति करसरोरुहविशेषणमस्तु। मदयतीति मदम् घटादित्वान्मित्वे ह्रस्वः। हर्षोत्पादकमिति तदर्थः। यदि नैव प्राप्यते तर्हि दैन्योत्पादकमिति गूढाभिप्रायः। मदी हर्षग्लेपनयोः॥४॥ यद्वा शिरसि धेहीत्यस्यायम्भावः। कान्तकामदपदमहिन्मा कुचेषुधेहीत्येववक्तुमुचितम्। कान्तो हि स्वहस्तं युवतिकुचे एव निदधाति न तु शिरसि, कुचे धार्यमाणः करः कामदो भवति, एतत्सर्वैरनुभूतमेव तदनुक्त्वा शिरः पदोपादानाद्यदानारायणः शिरसि हस्तं निदध्यात्तदा हनुमत्- प्रहलादादिवच्चिरजीविन्यः स्यामस्ततश्चिरकालं भगवता सह सङ्क्रीडिस्यामहे, क्षणं जलवुद्वदवज्जीवितेन का क्रीडा भवेदिति निश्चित्य शिरसीत्यचुः॥ ५ ॥

व्रजजनार्तिहन्वीरयोषितां

  निजजनस्मयध्वंसनस्मित

भज सखेऽभवत्किङ्करीःस्म नो

  जलरुहाननं चारु दर्शय ॥६॥

 ब्रजेतिायद्वा ब्रजेति क्रियापदम्,जनार्तिहन्नित्येव सम्बोधनम्। तेन सकलदुःखनाशकत्वम्। विना गरुडेन गच्छति, शत्रुङ्कम्ययति