पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
गोपीगीता-


वंशयोर्वाचकम्, इतजन्तार्थितपदेन सृष्टयादिप्रयोजनवत्त्वं सूचितम् ॥ २२॥ यतो भवान् सात्वताम्भक्तानां सखा अतो भक्त- प्रार्थितन्देहीति चतुर्भिराहुः।

विरचिताभयं वृष्णिधूर्यते।

  चरणमीयुषां संसृतेर्भयात् ॥

करसरोरुहं कान्तकामदं।

  शिरसि धेहि नः श्रीकरग्रहम् ।।५।।

 विरचितेत। यद्वा विशेषेण रचिता सम्पादिता अभय- मुद्रा यस्मिंस्तत्॥१॥यद्वा विर्गरुडो रोऽग्निः, स च सुदर्शनात्म- कस्ताभ्यां चितम्। चिञ्चयनेक्तान्तः,सम्पादितमभयं यस्मिंस्तव हस्ते गरुडसुदर्शने लाञ्छने स्तस्ताभ्यामभयं सम्पादितम्भवति। अतएव भयात् भयमत्तीतिभयात् 'अदोऽनन्ने ' इति विट्। एतत्सम्बोधनमस्तु। करसरोरुहविशेषणमस्तु वा ॥ २ ॥ यद्वा संसृतेर्भयाद्हेतोस्ते त्वया साकं रणमीयुषां हिरण्याक्षादीनाम् । तृतीयैकवचनान्तेऽपि बहुशस्ते आदेशो दृश्यते। ते तवेतिसम्ब- न्धसामान्ये षष्ठी वास्तु। रणं कुर्वतामपि विरचिताभयं मोक्ष- दमित्यर्थः। एतेन परमदयालुत्वं सूचितम् ॥३॥ यद्वा कान्त- कामदमित्यत्र केति पृथक् अन्तकेति पृथक् अ इति पृथक् मदमिति पृथक् एवंच यदि अन धेहि तर्हि हेक! हेधातः!


 *छ चोऽप्यर्थः।