पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
गोपीगीतार्थकौमुदीसहिता-

स्यान्तरात्मदृक्त्वम्। सेश्वरसाङ्ख्येऽपि एतत्सर्वं स्फुटमेवेत्य- धिकमुपेक्ष्यते। क्लेशादयो हि जीवेऽप्याहार्या एव बाधकालीने. च्छाजन्यज्ञानस्यारोपपदार्थत्वात्। यद्वा विः पक्षी गरुडस्तेन खे आकाशे नसते कौटिल्यं करोतीति विखनसेति सम्बोधनम्, णसकौटिल्ये पचाद्यजन्तः। पारिजातहरणे गरुडवाहनः सन् आकाशमार्गेण गत्वा इन्द्रंगरुडद्वारा विजित्य पारिजातमानीत- वान्। भौमासुरवधेऽपि गरुडवाहनः सन् जितवानित्यादिकथा भाविनीसूचिता। "विविष्किरपतत्रयः" इत्यमरः ॥१६॥ यद्वा हे विश्व! विश्वम्भर! नामैकदेशन्यायेन ॥ १७॥ यद्वा त्वत्सहस्र . नाम्नि तवविश्वेति नामैव, त्वयि प्रारोप्यमाणविश्वस्य अधिष्ठा- नस्य तव चाभेदाद्वा विश्वत्वमितिभावः,गुप्तये लोकरक्षणाय॥१८॥ यद्वा मम जन्म सर्वैर्न ज्ञायतां गूढरूपेणैव जनिष्यामीत्यर्थकम् ॥१६॥ यद्वाहे सात्वतांसखे!भक्तानांसखे॥२०॥यद्वा कुले कुम्पृथिवीं लाति गृह्णातीति कुलंतस्मिन्, राजकुले परन्तु कुत्सितं ययातिशापं गृह्णातीति तस्मिन्, एतेन यद्यपि राजवंश एव तथापि शापबाधात्तञ्चिह्नरहित इति भावः ॥ २१ ॥ यद्वा अर्थो दुष्टनिग्रहशिष्टरक्षादिरूपः संजातो यस्य सोऽर्थितः स भवान् खे हार्दाकाशे उदेयिवान्, हार्दाकाशादेवाजनिष्ट नतु योनितः। एतञ्च भगवज्जन्म प्रकरणादवगन्तव्यम्, यतोगोप्योऽपि भगवतो जन्म निर्णेतु नैवेशते,यतः कदाचिन्नन्दनन्दन इति कदाचिवृष्णि- धूर्य इति वदन्ति, पतद्बोधनायैव गुप्तये इति तादर्थ्ये चतुर्थी। एवं कुलेति श्लिष्टपदम्, सात्वतामिति च श्लेषमहिम्ना भक्त