यद्वा उः शम्भुः स चासौ भवान्, एतेन शम्भुरूपत्वम्॥ ४॥ यद्वा
हेअभव! संसारभिन्न ! शिवभिन्नवा हेअ! वासुदेव!नखिल!
सर्वरूप !॥५॥ यद्वा नखिलद ! चतुष्टयपुरुषार्थद ! ॥६॥ यद्वा ईहा
चेष्टा प्राणिनां हिताहितप्राप्तिपरिहारानुकूला क्रिया तद्वन्तः
प्राणिनस्तेषामन्तरात्मदृक् । ननु ईहाशब्दस्य व्रीह्यादिगणे पाठो
नास्ति कथमिनिरिति चेत ईहा यस्यास्तीति ईहो जीवः ईह-
शब्दोऽर्शआद्यजन्तः स नियम्यत्वेन अस्ति येषान्ते, इहिः कूट-
स्थाःपूज्यत्वाबहुत्वम्। तेषामपि योऽन्नरात्मा तत्पदवाच्यशुद्धचेतनः
सर्वज्ञस्तं पश्यतीति तथा ॥॥ यद्वा अन्तरपदेनैव सम्बुद्धयन्तेन
सर्वान्तर्यामित्वम् । आत्मदृक आत्मना स्वसामर्थ्येनैव भवान्
पश्यति नत्विन्द्रियद्वारा इन्द्रिया धिष्ठातृत्वादपाणिपादेत्यादि-
ना+ तथा प्रतिपादनात् ॥८॥ यद्वा नखं यस्यास्तीतिनखी सिंहो
नखिषु तस्यैव प्राधान्यात् तत्सम्बन्धिदेहेन नृसिंहावतारं लाति
गृह्णातीति तत्सम्बोधनम् ॥९॥ यद्वा देहीति क्रियापदम्, ना
इति प्रथमैकवचनान्तम्, गोपिका इति शसन्तम् अखिलेति-
सम्बोधनम्, परिपूर्ण इति तदर्थः। ना अस्माकम्पुमान् भवान् मं
शिवं कल्याणं देहि, 'मः शिवः' इति कोशः। अतएव भवानन्दनः
गोपिकाश्च देहि भवता गोपिकाः कुत्र नीताः ता देहि। हेतर!
*त्वयि कल्पितस्य संसारस्य त्वदभिन्नत्वात् कल्पितस्यावस्तुत्वात् रज्जुसर्पवत्।
+"अात्मेन्द्रियायधिष्ठाता करणं हि सकतृक'-मिति तार्किकाः।