इत्यपि सम्बोधनम्, संसारं तरति तारयति x वा तदर्थः। यद्वा हेत!
हेगोपिकाचोर! 'तकारः कीर्तितेचौरे इति कोशागोपिकादेहि।हेर!
अग्निरूप!एतेन 'न जातु कामः कामाना’-मितिस्मृतेरनन्ता अपि गो.
प्यस्तव कामपूरणाय नालम्। त्वं कामाग्निरेव ता गोप्य कुत्र नीताः,
ता देहीत्यर्थः।शसा रेतिसम्बोधनेनचप्रतीयते॥१०॥यद्वा तरिर्नौबु
द्धिरूपा सा अस्ति यस्येति अर्शआद्यजन्तः सम्बोधनम्। आत्मद-
गिति पृथक्॥११॥यद्वा ईहिना आम् अन्तरात्मदृक् इतिच्छेदः, ईहा
चेष्टा यस्यास्तीति ईही स चासौ ना पुमान्, एतेनानेकलीलाव-
न्त्त्वम् । एतत्सर्वम् आम् अङ्गीकुर्मः ॥ १२॥ यद्वा ईहिनेति
तृतीयान्तमेकम्पदम्। ईहाचेष्टा यस्यास्तीतीही तेन ब्रीह्यादित्वाभावे
कथमिनिरिति चेदीहते चेष्टते इति ईहः, पचाद्यच् जीवः स
सखित्वेन प्रतिबिम्वत्वेन वा अस्यास्तीति अत इन् ॥ १३॥ यद्वा
हे त ! अज्ञानचोर! 'तकारःकीर्तितश्चौरे' इति कोशः।हे र ! जा-
ठराग्निरूप ! 'पचाम्यन्नं चतुर्विध-मित्युक्तः॥ १४ ॥ यद्वा तेभ्य-
श्चोरेभ्यो राति नवनीतमिति तरः “सुपी"-ति योगविभागात्कः
॥१५॥ यद्वा तान् चोरान् इन्द्रियाणि राति लाति आदत्ते गृह्णाति
स्वाधीनं करोति रलयोरभेदः, हेकूटस्थेति तदर्थः । तपदेन
गोपिकाचोरत्वम् रपदेन कामाग्नित्वम्, एवञ्च पूर्वन्दुकूलमचू-
चुरत्, इदानीन्तु गोपिका अपि इति शसा बहुत्वम्बोधयता बहु-
x अन्तर्भावितण्यर्थः। “बुद्धया यया धारयते" "बुद्धिबुद्धिमतामस्मी"- त्यादिना बुद्धरेव संसारतारकत्वं वर्णितमस्ति ।