सोऽस्ति येषान्ते सात्वन्तो भक्तास्तेषां कुले एतेन नन्दस्य
भक्तत्वं बोधितम्। पूज्यत्वाद्वहुत्वम् । भवद्विरहाद् यदस्माकं
दुःखन्तद्भवतोऽपि समानं कुतोऽस्मानुपेक्षसे इत्यभिप्रायः ॥१॥
यद्वा नखं लुनातीति नखलु गौरिन्द्रियं मनः तत्पातीति नखलु-
गोपा बुद्धिः ततोऽज्ञातादौ कः 'बुद्धिनाशात्प्रणश्यति' इत्युक्त्या
यस्य बुद्धिः पर्यवतिष्ठते तस्य सर्वेन्द्रियाणि स्वस्वविषयप्रवी-
णानि भवन्ति, अतो नखलुगोपिका बुद्धिः नखलुपदं नखं लुना-
तीति व्युत्पत्त्या तीक्षणोपलक्षकम्, अतः'तस्याहं निग्रह'-मत्यादि
दृश्यते। तस्या बुद्धेरानन्दनो भवान् तत्साक्षित्वाद्वेदान्तिनये
चेतनदत्वात्साक्षित्वादृष्तृत्वाच्च साङ्ख्यमते बुद्धिमत्वान्न्याय-
मते.सर्वेषां तीर्थकाराणां यथायथं बोध्यम्॥ २ ॥ यद्वा उ विस्मये
तेन सह कर्मधारयः,विशिष्टात्सम्बुद्धेरव्ययत्वाल्लुक् प्रधानत्वा-
दव्ययत्वम्। अव्ययसंज्ञायान्तदन्तविधिसत्त्वात् 'एङ्हस्वादि”-ति
लोपो वा तार्किकैर्द्रव्यमध्ये ईश्वरपरिगणनाद्रव्यत्वे तद्वाचको-
शब्दस्य कथं निपातत्वं,तदभावे कथमव्ययत्वमिति तु न शङ्क-
नीयम् श्रुतिषु अश्रवणात्'अपाणिपादे-त्यादिना आश्चर्यरूपस्यैव
प्रतिपादनात्,अद्वितीयरूपस्याश्चर्यरूपत्वात् निर्गुणः केवलश्चे-
त्यादिना द्रव्यत्वनिषेधात्। नहि निर्गुणं द्रव्यम्भवति 'आश्चर्यव-
त्पश्यति कश्चिदेन'-मित्यादि च मानम्। यद्यप्याक्षणे द्रव्यमपि
निर्गुणम्भवतु, अनादेस्तु का वार्ता। ज्ञानमपि नहीश्वरगुणः
श्रुतिभिस्सच्चिदानन्दप्रतिपादिकाभिस्तथैव प्रतिपादनादित्यलम्
॥३॥यद्वा नन्दनान्तं सम्बोधनम् सखिविशेषणम्, उ पृथगस्तु।
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४९
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
गोपीगीतार्थकौमुदीसहिता-