पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
गोपीगीता-


श्राङ मर्यादायाम्, तेन मनुष्यादृते अन्यापेक्षया श्रेष्ठ, एतेन मनुष्येभ्यो भवान्नालं रक्षोभ्यो रक्षिता मनुष्येभ्यस्तु को रक्षिता इतिदैन्योक्तिः ।। १५ । यद्यप्यस्मिन्पक्षेमनुष्येभ्यो नालमित्युक्तया ईश्वरस्य न्यूनत्वं व्यङ्ग्यम्, तथापि नर्मवचनपरतया परिहार्यम् ॥ १६ ॥ यद्वा विषं जलं 'विषमपसुचे-त्यमरः । तस्माज्जं कमलं लाति गृह्णातीतिविषजल, एतेन विष्णुलक्षणत्वमुक्तम् ॥ २७॥ यद्वा विषजला गृहीतकमला*रुक्मिणी अप्ययाच्चैधादिहरणरूपा न्नाशाद्भविष्यता रक्षिता, पूर्वमेवेतिशेषः, वयन्तु अनलादेरिति भावः ॥१८॥

न खलु गोपिकानन्दनो भवा

  नखिलदेहिनामन्तरात्मदृक् ॥

विखनसाऽर्थितो विश्वगुप्तये ।

  सख उदेयिवान्सात्वतां कुले ॥४॥

 नेति,-यद्वा समानं ख्यायते जनैरिति सखा इति व्युत्त्पत्त्या ईश्वरसमानत्वं स्वस्य बोधितम, अन्यथा मित्रसुहृदादिपदं किमिति नोपात्तमा एतेषां परस्पर भिन्नार्थकत्वम् x सात्परमात्मा


 *"राघवत्वे भवेत्सीते" त्यादिवचनादिति भावः ।

 ×“अत्यागसहनो बन्धुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मित्रंसप्रमाणः सखा मतः” इति समाने ख्यः। स चोदात्तइत्यौणादिकसूत्रण साधुः॥