रूप ! र अग्ने न क्षायतीत्यक्ष नाशशून्य ! क्षयार्थकक्षैः
कान्तःक्षि क्षये "अन्येष्वपि इति डान्तो वा, सात्परमात्मन् हेवर्ष!
पर्जन्यरूप हेमारुत ! वायुरूप!सर्वचित्तेषु अततीत्यत् !हेसर्वान्त.
र्यामिन् ! हेवैद्युत!हेवृष! धर्मरूप! मयात्मजात् व्योमासुरात् अन-
लात् विश्वतो भयाञ्च हेऋषभ! तवात्मीया वयं मुहुस्त्वया रक्षिताः
११२यद्वारलयोरभेदःआसमन्तान्नरमत्तीतिआनरात्मयात्मजः
वयञ्च मुहुःरक्षिताःशापोद्धारणादुव्योमरक्षा,अतो भवन्महिमज्ञा-
नात्सर्वतोभयाद्धेतोः अभयप्राप्तये ते तव अनिर्वचनीयम घ्रिम्भ.
जामः इतिशेषः। वः इवार्थे अनिर्गुणस्य तव भजनन्तु तत्सदृशे
एव पर्यवस्यति ॥ १३॥ यद्वा अनरशब्दो रूढ्या रक्षापिशाचा-
दीनाह, रक्षःपिशाचादीनामपि भक्षको यो व्योमासुरःस वयञ्च
रक्षिताः एतेन कृष्णस्यालौकिकवीरत्वं सूचितम् ॥ १४॥ यद्वा
*आनरादित्यत्राङ् मर्यादायाम, "अाङ्मर्यादावचमे"इत्याङोऽपादान- त्वम्। “पञ्चम्यपाङ्परिभि"-रिति नरशब्दात्पञ्चमी,मनुष्याढते इत्यर्थः । अभिविधौ तु मनुष्यमभिव्याप्येत्यर्थः । मनुष्यादागतादपि भयाद्भवान् रक्षिता, देवादिभ्यो भयात्को रक्षिता इत्यभिप्रायः । “श्राङ् मर्यादाभिवि- ध्यो'-रिति समासाभावपक्षे आनरादिति साधु । समासपक्षेऽपि “नाव्ययी- भावा"-दिति पञ्चम्या अम्भावाभावात्लाधु। तम्विना मर्यादा तम्व्याप्याभि- विधिरिति भेदः । वैद्यु तादित्यत्र विपूर्वकद्युतधातोः "इगुपधे”-तिके गुणा- भावः । विद्युत एव वैद्युत इति स्वार्थेऽण प्रकाशमान इत्यर्थः । अनलादि त्यत्रानलं मुजारण्यदावमत्तीत्यनलात् "अदोऽनन्ने” इति विट् ।