पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
गोपीगीता-‌


अतो यम्भवन्तं रक्षिताऽपि ते पिता कंसाद्रक्षितः,पूर्ववत्सूति- काकोष्ठकपाटादिपिधानद्वारेति शेषः। अन्यथा त्वत्पितरमपि कंसो हन्यादेव रक्षित इति तु योग्यतावलाद्विभक्तिव्यत्यासः। एतत्पक्षे रक्षितेति तृन्नन्तम्।अतोनलोके'-ति षष्ठीनिषेधाद्यमिति द्वितीया, तृना च ताच्छील्यद्योतकेन वसुदेवस्य रक्षणशीलत्वादि प्रतिपादितम्भवति। रक्षितेत्यस्य तृजन्तत्वपक्षे भवान् चराच. राणां रक्षिता, अतो वयं रक्षिताः तदन्तर्गतत्वात्। तृचा काल- त्रयरक्षकत्वम्बोधितम्, इदानीं रक्षति पूर्वमरक्षीत् पश्चाद्रक्षि- ष्यति। लुडन्तत्वपक्षे भाविनाशाद्रक्षिष्यति प्रत्ययश्लेषलभ्यार्थाः। एतद्युक्तमेव,“अचिरादुपकर्त्तु राचरे-दिति श्रवणात्,अस्मिन्नर्थे तात्पर्यग्राहकमृषभेति सम्बोधनम्,यतो भवतः श्रेष्ठत्वम् ॥६॥ यद्वा उक्तोपद्रवाद्भवान् रक्षिता व इवार्थः, रक्षिता इव भवति अयम्भावः,नन्दगोपवसुदेवगोपीभिर्भवान् रक्षितः अतएव भवानपि तेषां रक्षिता,“ये यथा माम्प्रपद्यन्ते तांस्तथैव भजाम्यह"- मित्युक्तेरस्माकंरक्षणन्तु तत्प्रत्याम्नायीभूतमेवेति इवार्थः॥१०॥यद्वा विषजलेति सम्बोधनार्थस्तु अर्णवमन्थनजकालकूटविषजन्यसक- ललोकदुःखग्रहीतः एतेन शिवावतारत्वं सूचितम्॥११॥ यद्वा तद्विष्- पानजन्यशिवगृहीतदुःखग्रहीतः सर्वलोकोपकृतये शिवेन काल- कूटं पीतम्, तज्जनितं यच्छिवदुःखं तस्यापि ग्रहीतःएतेन परमदयालुत्वबोधनद्वारा शिवादप्युत्कर्षो बोधितः। अपि पुनःअयते लयं गच्छत्ययं जगत् तत्प्रलयाग्निरूपेण अत्ति भक्षती- त्ययात् तत्सम्बोधनं हेव्याल ! सर्वप्राणिग्रासक! काल-