मुक्तिरित्यभिप्रायः ॥४॥ यद्वा अप्ययान्नाशादित्यर्थः । अपिपूर्व-
कस्य एतेर्लयार्थत्वम्प्रसिद्धम् । प्रभवाप्ययावित्युत्पत्तिप्रलययोः
प्रयोगदर्शनात् तेनानेकनाशाद्रक्षिता अरक्षीत् । भाविनाशाच्च
रक्षिष्यति इत्यभिप्रायः । रक्षितेति लुडन्तम्वा ॥५॥ यद्वा 'स्वाप्य-
यादि'-ति व्याससूत्रोक्तसुषुप्तिरूपान्नाशाद्रक्षिताः, एतदुक्तम्भवति
यदा सदैव सुषुप्तिः स्यात्तदा नैव भवता सह रमणं स्यात् ।
आत्मना सह सम्पन्नो भवेत्तदेव रमणमित्यपि नैव वक्तव्यम् ।
न तत्र सुखानुभवहेतुः कश्चित्,अज्ञानमेव विज़म्भते। भवदनुग्रहा-
देव जाग्रत्यो भवता रमामहे, एतेनावस्थासाक्षित्वम्प्रतिपादितम्
॥६॥ यद्वा हेवृषमय!धर्मविकार!धर्मप्रचुर!वा विकारे प्राचुर्येवा
मयट् । यद्वा वृषः श्रेष्ठः परमात्मा प्रचुरो यस्मिन्नित्यधिकरणे भावे
वा मयट, वृषस्य श्रेष्ठस्य नन्दस्य विकार वा 'श्रेष्ठे सुकृते वृषभे
वृषः' इत्यमरः । यद्वा मायावित्वादितिजकारुत्वमारोप्य सिंहो
माणवक इतिवद्गौणलाक्षणिकत्वेन मयत्वेन सम्बोधनम् ।तत्त्वच्च
शक्यार्थवृत्तिगुणवत्त्वप्रयुक्तप्रवृत्तिनिमित्तारोपेणा-
र्थान्तरे प्रयुक्तत्वम् । यद्वा श्रयगतौ पचाद्यजन्तः । इण् गतौ वा
तथाच वृषमयेति सम्बोधनम्। हेवृषपश्चाद्गन्तः ! इत्यर्थः। आत्म-
जात्पुत्रजात्सर्वतो भयाद्भवान् रक्षिता 'कुपुत्रे सर्वतोभय'-मिति-
वचनात् ॥७॥ यद्वा आत्मजात्त्वजात् विश्वतो भयात् संसार-
भयात् भवद्विवर्त्त एव संसारः, स च तवाधीन इति भावः॥८॥
यद्वा 'अद्य वाब्दशतान्तेवा' इत्यादि ज्ञानोपदेशद्वारा कंसाद्देवकी
रक्षिता तद्रक्षाद्वारा ते जन्म ततस्तव गोकुलानयनेन कंसाद्रक्षा,
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४५
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
गोपीगीतार्थकौमुदीसहिता-