पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
गोपीगीता-


नन्तरे- -त्यमरः । “ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठस्मित्वा विनिर्यातौ तस्मान्माङ्गलिकाविमो”-वितिश्रुतेः।२७। यद्वा अथ अनन्तरम् ते शुकदासिका इत्यादि योज्यम् ॥ २८ ॥

विषजलाप्ययाद्व्यालराक्षसा-
  द्वर्षमारुताद्वैधु तानलात् ॥
वृषमयात्मजादिश्वतोभया-
  दृषभ ते वयं रक्षिता मुहुः ॥३॥

विषेति-यद्वा विषजलेत्येकम्पदम्,विषं जलम् 'विषमप्सु चे'- त्यमरः । तस्माजातं कमलमाश्रयत्वेन लाति गृह्णातीति विष- जला पद्मालया सा अप्ययान्नाशात्, समुद्रमथनोद्भूता लक्ष्मीर- सुरादिभ्यो रक्षिता ॥१॥ यद्वा विषं जलं तस्माजातं विषजं कमलं तदाश्रयत्वेन गृह्णातीतिविषजल हेकमलासन !, एतेन चतु- र्वदनत्यम्बोधितम् ॥२ ॥ यद्वा ब्रह्मकृततैरोहित्यरूपनाशाद्वयं रक्षिताः । अतएव युवतीनामस्माकं तिरोधानकरण उद्युक्तोऽपि नैव शशाक ॥३॥ यद्वा अं वासुदेवं त्वां पिबतीत्यपास्तम्मिन्नपि अयम्भावः-तत्त्वमसीतिमहावाक्यं जीवब्रह्मणोरभेदं प्रतिपादयति तथाच मुक्तावस्थायां जीववासुदेवयोरैक्यात्पानत्वम्बोधयति जीवत्वमपन्हुते ।यथा पीतं जलादि न शरीरात्पृथक् तत्रैव विलीनं भवति एवं मुक्तावस्थायान्तयोरपीति अपि मुक्तावस्थायाम् । पा रक्षणे वा, एवञ्च मुक्तिविषये भवान् रक्षिता। तवानुग्रहेणैव