अतः परमनुकम्पायां कः स्यात्, अशुल्कदासिका इत्येवच्छेदः
स्यात्तथा सति निषेधबोधो । न स्यादित्यपिनाशङ्कनीयम्। बन्धन-
मुक्ता अप्युदरम्भरयः सत्यो दासीकर्मैव कुर्वन्ति न तु तपस्यन्ति,
तदपि शुल्केनैव न तु दयापराः। अतक्षा तक्षावत्तासां गौणदासी.
त्वमस्त्येव । किञ्चानादिव्यवस्थामपह्रोतुं कोऽपि न शक्नोति।
यतो दासीत्वव्यवह्रतिरनादिव्यवस्था, शुल्कमुक्ता अपि न
स्वकर्म मुञ्चन्ति जातिव्यवहारस्तु कर्मणैत्र, यतः 'कर्मणैव हि
संसिद्धिमास्थिता जनकादयः' इति श्रूयते । ब्राह्मणोऽपि यदि
जात्यन्तरवर्ति कर्म कुर्वञ्जात्यन्तरत्वेन प्रतीयते । अतो वयमशु-
ल्कदासिका इत्युक्त्यैव नाथस्य दासिकागामित्वं विनिन्ध रत-
मपि विनिन्दितं सन्निषेधं व्यवस्थापयतीति प्रघट्टकार्थः। पूर्वं
रतंदास्याम इत्यूचुः,पश्चाद्विचार्य निषिषिधुरतोऽलङ्कतिराक्षेपः
॥२५॥यद्वा सुरतनाथतेइत्यत्र हेसुर! हेदेव! हेत!अस्मद्दुकुलचोर!
हेन !+हेबुद्ध ! एतेन बुद्धावतारोऽपि तवैवेति सूचितम् ॥२६॥
यद्वा ना पुमान् भवान् पुरुषपदवाच्यः, अथ मङ्गलरूप मङ्गला
*सुरतं नैव दास्याम इति पूर्वोक्तनिषेधः ।
- दास दाने पचायजन्तात्कुत्सिते के टापीत्वम् । यद्वा ण्वुलन्तः,शब्दार्थ-
सम्बन्धस्य नित्यत्वादबान्धनमुक्तत्वेऽपि स्वार्थम्प्रदर्श्यन्त्यो दासीकर्म कुर्वन्ति । प्रासां नीचत्वगोधनायैव समानार्थकत्वेऽपि दास्मृधातुमुल्लध्य दासृधातुमेव पपाठ श्रीवादरायणः।
+"नकारः सौगते बुद्ध" इति कोशः ।