वरद वा विनापीत्यादिना कामपदलोपः ॥१४॥ बलिष्ठशत्रुखण्डन
वा शत्रुपदलोपः॥ १५॥ दाधातोर्दोधातोर्वा कः । यद्वा अशुल्कद
अमूल्यद मुक्तिद (वरद ) हे नेह ! वा न विद्यते ईहा चेटा यस्य
सस्तत्सम्बुद्धिः +॥१६॥ यद्वा निघ्नतो दुष्टान्निध्नतः॥१७॥ ते तव
अथ आसिका वा, उपवेशने पर्यायः । अस्माभिरितिशेषः। आस
धातोः 'पर्यायार्हणे-ति पर्यायादौ एच ॥१८॥ अस्माभिः सहो-
पवेशसमयो योग्यतामर्हति भवानित्यादि बोधो वा ॥ १६ ।।
श्रीमुषा दृशा अस्माकं वधः किमपि तु न, यत्कटाक्षपातमात्रेण
क्षीरसागरादुत्पन्नामपि लक्ष्मीं स्वाधीनाञ्चकार,तादृशी तु दृग-
स्माकं कल्याणायैव भवतीत्यभिप्रायः॥ २०॥ यद्वा वरान् श्रेष्ठान्
हिरण्याक्षादीन्द्यति खण्डयतीति तथा 'देवाढते वरः श्रेष्ठे
त्रिषु क्लीबं मनाक्प्रिये' इत्यमरादभिप्रेतोऽर्थोऽस्तु ॥ २१ ॥ यद्वा
सुरतनाथेत्यत्र सुरतेति पृथक्सम्बोधनम् । सुष्ठुरतं मैथुनं यस्य
सस्तथा 'मैथुनं निधुवनं रत'मित्यमरः । एतेन कामशास्त्राभिज्ञ-
त्वप्रदर्शनपुरस्सरं मैथुनलिप्सा प्रदर्शिता । नाथते आशिषं दत्ते
इति नाथः, नाथापचाद्यजन्तः।हे कल्याणदातः! यद्वा हे सुरतयाचका
हे उपतापक!वा वेणुशब्देनास्मान्मोहयन्नाजुहाव, पतिपुत्रादीन्हि-
त्वा वयमागताः । त्वन्तु स्वप्रेयसीमादाय पलायितः। अतो
वयङ्कथङ्कारङ्गृहं गच्छामः । न पुनः पत्यादयोऽस्मान् गृह्णीयुः
वयं स्वपतिं त्वाञ्चान्तरा भवेयुः। अतस्त्वमुपतापकेति भावः
+नशब्दस्य 'सुपसुपे'-तिसमासः ।