स्तत्सम्बोधनं सरसिजो जलक्रीडार्थं सरोगन्त इति भावः।
कालियनागनिग्रहार्थं यमुनाह्रदे वेगेन गमनशीलेत्यर्थो वा ॥जु
गतौ वेगे च विजन्तो गुणाभावस्तु पूर्ववत्, 'तत्पुरुषे कृति बहु-
ल'-मिति सप्तम्यलुक्, सम्बुद्धिगुणः। यद्वा विज्निमित्तकगुणेऽपि
क्षत्यभावः। जुधातोर्विचि तन्निमित्तकगुणे सप्तमीसमासे स.
प्तम्या अलुकि विशिष्टाजायमानसम्बुद्धिलोपे रूपसिद्धिरिति तु
न ओकारान्तविहितत्वेन सम्बुद्धर्णित्त्वे जौरित्यापत्तेः ॥८॥
हे दृणातीति दर वा देवशत्रून्सुष्टु विदारयतीत्यर्थः ।
विदारणार्थकदृधातोः पचाद्यचि गुणे साधुः ॥ ६॥ हे
सुर!देवस्वरूप! वा ॥१०॥ यद्वा तनोति विस्तारयति प्रपञ्चरूप.
तया संसारमिति तनस्तत्सम्बुद्धिः यतो वे' ति श्रुतिप्रतिपाद्येति
भावः। तनु विस्तारे पचाद्यजन्तः॥११॥ यद्वा हे अशुल्क ! मूल्य-
रहित! एतेन तवमूल्याभावादेव मूल्येन दासवत्कर्त्तुं नैव शक्नुम
इत्यभिप्रायः ॥ १२ ॥ यद्वा वयन्तु स्वल्पमूल्येन दासीकृताः यतो
वयं गोप्यो नीचाः अतः स्वल्पमूल्यलभ्या इत्यभिप्रायोऽशुल्क
दासपदमहिम्ना प्रतीयते, अशुल्कदालिकापदघटकनञा पर्युदास-
बोधकेन स्वल्पत्वंस्पष्टम् ! अनुदरा कन्येतिवत्, एतत्पक्षे अशुल्क-
दासिका इति गोप्यो विशेषणमस्तु ॥ १३ ॥ न विद्यते स्वल्पं
मूल्यं यासान्ता अशुल्कास्ताश्च दासिका इति समासे तु
नास्माकं बहुमूल्यमस्ति तथापि दासिकास्तुच्छदासिकाः सम्पन्-
नाः कुत्सिते कः, 'केऽण' इति ह्रस्वः।वरान् ® कामान् ददातीति
*'देवाढते वरः श्रेष्ठे' इत्यमरः।