पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
गोपीगीतार्थकौमुदीसहिता-

'सदिः । टिलोपे सात्पदाद्योरिति षत्वनिषेधे साधुः। कन्दर्पदर्प- हेति वचनाच्छीकृष्णावतारोऽपि कन्दर्पदर्पहा वा॥३।।यद्वा इङ्काम- मभिलाषं** शत्रुमुख्यं साययतीति=षोऽन्तकर्मणि कान्तः । 'जहि शत्रु महावाहो कामरूपं दुरासद'-मित्युक्तेरजय्यो मुख्यः शत्रुः काम एव ॥३॥ यद्वा हे आधुजातेति एकं सम्बोधनम्, हे आरावणादीनभिव्याप्य धुनोतीत्याधुर्हनुमान् स मित्रत्वेन जातो यस्य सस्तत्सम्बोधनं रावणादिशत्रुरूप ४ वा, कम्पनार्थकधुधातो- र्विचि संशापूर्वकविधेरनित्यत्वाद्गुणाभावः। क्विपि तु तुका भाव्यम् । 'जातिकाले'त्यादिना निष्ठान्तस्य परनिपातः। यद्वा आ समन्ताद् धुनोतीत्याधुर्वायुस्तस्माज्जात आधुजो हनुमान् ते- नातति सातत्यं गच्छतीत्याधुजात हनुमतः स्कन्धमारुह्य लङ्का- ञ्जगामेत्यादि प्रसिद्धिः, एतेन रामोऽपि त्वमेवेति सूचितम् । हे सत्+ हेदोषज्ञ वा॥५॥भावरूपवा॥६॥एतेन शून्यवादिमत मात्मनो जडत्ववादिमतञ्च परास्तम् । सरसि विषये जवति इति


 *'इकार उच्यते कामः, इतिकोशः ।'मोऽभिलाष' इत्यमरः।

 = यद्वा षोन्तकर्मणि सकर्मकोऽपि दृश्यते, यथा "राघवस्य शितैर्वाण

हत्वा रावणमाहवे"इत्यत्र सकर्मकदर्शनात् तस्मान्मास्तु वा णिच्, हे राध- वेति सम्बोधनम् स्येति लोएमध्यमपुरुषैकवचनान्तम् ।

 x देवादीनभिव्याप्य धुनोति कम्पयतीति अाधू रावणः स शत्रुत्वेन जातो यस्येत्यर्थः, तत्सम्बोधनम् ।

 +ब्रह्मविशेष्यतया नपुंसकत्वमतो नुमभावः "ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः" इति स्मृतेः। सदेव सौम्येदमनासी।दित्यादिश्रुतेश्च ।