पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
गोपीगीता-


ष्ठानस्योभयोः सजातीयधर्मज्ञानस्यापि सापेक्षत्वात्, जगत्प्रती- तिस्तु आकस्मिकी एव गन्धर्वनगरदर्शनवत् । तस्मात् सत्त्वा- सत्त्वाभ्यामनिर्वचनीयतया मायामात्रपर्यवसानमिति तु भगवत्ता- त्पर्यम्। एवमधिष्ठानादिकं विनैव स्वप्नमनोरथौ भवतः तदुक्तम् "अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथे"-त्यादि अपरान्तिकावृत्तम्, नररला गुरुश्चापरान्तिकेति लक्षणम्।

शरदुदाशये साधुजातस-1

  त्सरसिजोदरश्रीमुषा दृशा ॥

सुरतनाथ ते शुल्कदासिका।

  वरद निघ्नतो नेह किं वधः ।।२।।

 शरदिति, यद्वा शृणातीति शरः, हिंसार्थकशृधातोः पचाद्यच् अरातिध्वंसक एतेन कामक्रोधाद्यरातिनाशकत्वञ्च प्रतिपादितम्, ते एव मुख्यशत्रवः। यैः शत्रुभिः कृत्वासंसारकूपपातः । दुनोति शत्रून्तापयतीति दुद्, उपतापार्थकदुधातोः क्विपि तुकि जस्त्वम्। आ समन्ताच्छेते आशयस्तत्सम्बोधनम् । व्यापकत्वात्सर्वत्र विद्यमान हे सर्वान्तर्यामिन् ! लये क्षीराब्धौ सुखपूर्वं शयालो वा "सर्वस्य चाहं हृदि सन्निविष्ट” इत्यादि मानम् ॥२॥ इङ्कामं शिवावतारेण सादयतीति इस "अन्येष्वपि दृश्यते" इत्यत्रापि- शब्दस्य सर्वोपाधिव्यभिचारार्थकत्वाड्डः, अन्तर्भावितण्यर्थः