पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
गोपीगीतार्थकौमुदीसहिता-


आरम्भो नाम समवाय्यसमवायिनिमित्ताख्यकारणोभ्यो भिन्नस्य- कार्यस्योत्त्पत्तिस्तां यो वक्ति सोऽयमारम्भीत्युच्यते। पूर्वरूपपरि- त्यागेन रूपान्तरप्राप्तिलक्षणं परिणामं यो वक्ति, स परिणामी- त्युच्यते। प्रक्रियाद्वयमजानानो लोकव्यवहारमात्रपरो लौकिक इत्युच्यते। एषां त्रयाणामपि कारणस्यैकस्य ज्ञानादनेकेषां कार्याणां विज्ञानं भवतीतिवाक्यश्रवणाद्विस्मयो भवेदेवेत्यर्थः। श्रुतिप्रसिद्ध विवर्त्तलक्षणकारणवादे तु कल्पितकार्यस्य अवस्तुत्वात्तस्यकार- णसत्तातिरिक्तसत्ताकत्वाभावादेकस्य ज्ञानादनेकेषां कार्याणां विज्ञानं भवत्येवेति विवेकः विवर्त्तवाद एवाद्वैतवादराद्धान्तः। पूर्वरूपाऽपरित्यागेन रूपान्तरावाप्तिर्विवर्त्तॊ नाम आरोपाधिष्ठान- मिति यावत्। आरोपश्च बाधकालीनेच्छाजन्यज्ञानम्। एतत्सर्वं बुबोधयिषवो गोप्यः त्वयि धृतासव इति पदमूचुः। एवं दयित- पदेनापि प्रेमास्पदत्वप्रतिपादकेन जगदुपादानत्वं सूचितम्। उपादानकारणनाशात्कार्यनाशस्य दृष्टतया कार्यस्य प्रेमास्पदं सद्दयितमुपादानमिति सर्वम्पुष्कलम्। किञ्चैकविज्ञानेन सर्व विज्ञानं दर्शयन्ती श्रुतिनं परोक्षमर्थम्प्रतिपादयति किन्तु धूलिधू- सरपादहालिकेनाप्यनुभूतमर्थमनुवति। एकमृत्पिण्डज्ञानेन वा- लोऽपि मृन्मयं सर्व कार्यजातं निश्चिनोति। उक्तत्रयाणां विस्म- यस्तु विचारलेशशून्यत्वादेवेति विभावनीयम्। 'मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि नचाहं तेष्वव- स्थितः॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वर।' मिति निषेधेन श्रीभगवताविवर्त्तवादोऽपि निराकृतः। तद्वादेऽपि अधि